ऋग्वेद - मण्डल 8/ सूक्त 59/ मन्त्र 1
इ॒मानि॑ वां भाग॒धेया॑नि सिस्रत॒ इन्द्रा॑वरुणा॒ प्र म॒हे सु॒तेषु॑ वाम् । य॒ज्ञेय॑ज्ञे ह॒ सव॑ना भुर॒ण्यथो॒ यत्सु॑न्व॒ते यज॑मानाय॒ शिक्ष॑थः ॥
स्वर सहित पद पाठइ॒मानि॑ । वा॒म् । भा॒ग॒ऽधेया॑नि । सि॒स्र॒ते॒ । इन्द्रा॑वरुणा । प्र । म॒हे । सु॒तेषु॑ । वा॒म् । य॒ज्ञेऽय॑ज्ञे । ह॒ । सव॑ना । भु॒र॒ण्यथः॑ । यत् । सु॒न्व॒ते । यज॑मानाय । शिक्ष॑थः ॥
स्वर रहित मन्त्र
इमानि वां भागधेयानि सिस्रत इन्द्रावरुणा प्र महे सुतेषु वाम् । यज्ञेयज्ञे ह सवना भुरण्यथो यत्सुन्वते यजमानाय शिक्षथः ॥
स्वर रहित पद पाठइमानि । वाम् । भागऽधेयानि । सिस्रते । इन्द्रावरुणा । प्र । महे । सुतेषु । वाम् । यज्ञेऽयज्ञे । ह । सवना । भुरण्यथः । यत् । सुन्वते । यजमानाय । शिक्षथः ॥ ८.५९.१
ऋग्वेद - मण्डल » 8; सूक्त » 59; मन्त्र » 1
अष्टक » 6; अध्याय » 4; वर्ग » 30; मन्त्र » 1
अष्टक » 6; अध्याय » 4; वर्ग » 30; मन्त्र » 1
Meaning -
Indra and Varuna, power and judgement of divinity, these are your contributions to life which in this grand yajna of human life vibrate in the yajnic projects of life inspired by you: In every yajna of life you energise and shine the holy activities when you bless and inspire the yajamana who creates and contributes to the joy of life.