ऋग्वेद - मण्डल 8/ सूक्त 59/ मन्त्र 5
ऋषिः - सुपर्णः काण्वः
देवता - इन्द्रावरुणौ
छन्दः - विराड्जगती
स्वरः - निषादः
अवो॑चाम मह॒ते सौभ॑गाय स॒त्यं त्वे॒षाभ्यां॑ महि॒मान॑मिन्द्रि॒यम् । अ॒स्मान्त्स्वि॑न्द्रावरुणा घृत॒श्चुत॒स्त्रिभि॑: सा॒प्तेभि॑रवतं शुभस्पती ॥
स्वर सहित पद पाठअवो॑चाम । म॒ह॒ते । सौभ॑गाय । स॒त्यम् । त्वे॒षाभ्या॑म् । म॒हि॒मान॑म् । इ॒न्द्रि॒यम् । अ॒स्मान् । सु । इ॒न्द्रा॒व॒रु॒णा॒ । घृ॒त॒ऽश्चुतः॑ । त्रिऽभिः॑ । सा॒प्तेभिः॑ । अ॒व॒त॒म् । शु॒भः॒ । प॒ती॒ इति॑ ॥
स्वर रहित मन्त्र
अवोचाम महते सौभगाय सत्यं त्वेषाभ्यां महिमानमिन्द्रियम् । अस्मान्त्स्विन्द्रावरुणा घृतश्चुतस्त्रिभि: साप्तेभिरवतं शुभस्पती ॥
स्वर रहित पद पाठअवोचाम । महते । सौभगाय । सत्यम् । त्वेषाभ्याम् । महिमानम् । इन्द्रियम् । अस्मान् । सु । इन्द्रावरुणा । घृतऽश्चुतः । त्रिऽभिः । साप्तेभिः । अवतम् । शुभः । पती इति ॥ ८.५९.५
ऋग्वेद - मण्डल » 8; सूक्त » 59; मन्त्र » 5
अष्टक » 6; अध्याय » 4; वर्ग » 31; मन्त्र » 1
अष्टक » 6; अध्याय » 4; वर्ग » 31; मन्त्र » 1
Meaning -
We speak and celebrate, for the sake of great goodness and prosperity, the truth, grandeur and power, honour and excellence received from the mighty and magnificent Indra and Varuna. O Indra and Varuna, gracious and benevolent protectors of the greatness and goodness of life, protect and promote us by the sevenfold voice of the seven sisters and seven sages at the three levels of body, mind and soul.