ऋग्वेद - मण्डल 8/ सूक्त 83/ मन्त्र 4
ऋषिः - कुसीदी काण्वः
देवता - विश्वेदेवा:
छन्दः - पादनिचृद्गायत्री
स्वरः - षड्जः
वा॒मं नो॑ अस्त्वर्यमन्वा॒मं व॑रुण॒ शंस्य॑म् । वा॒मं ह्या॑वृणी॒महे॑ ॥
स्वर सहित पद पाठवा॒मम् । नः॒ । अ॒स्तु॒ । अ॒र्य॒म॒न् । वा॒मम् । व॒रु॒ण॒ । शंस्य॑म् । वा॒मम् । हि । आ॒ऽवृ॒णी॒महे॑ ॥
स्वर रहित मन्त्र
वामं नो अस्त्वर्यमन्वामं वरुण शंस्यम् । वामं ह्यावृणीमहे ॥
स्वर रहित पद पाठवामम् । नः । अस्तु । अर्यमन् । वामम् । वरुण । शंस्यम् । वामम् । हि । आऽवृणीमहे ॥ ८.८३.४
ऋग्वेद - मण्डल » 8; सूक्त » 83; मन्त्र » 4
अष्टक » 6; अध्याय » 6; वर्ग » 3; मन्त्र » 4
अष्टक » 6; अध्याय » 6; वर्ग » 3; मन्त्र » 4
Meaning -
O divine leader of advancement, Aryaman, let our action for progress be noble and successful. O Varuna, divine power of judgement and value, may our honour and reputation be good and noble. We opt for only what is good, noble and gracefully successful.