ऋग्वेद - मण्डल 8/ सूक्त 87/ मन्त्र 4
ऋषिः - कृष्णो द्युम्नीको वा वासिष्ठः प्रियमेधो वा
देवता - अश्विनौ
छन्दः - निचृत्पङ्क्ति
स्वरः - पञ्चमः
पिब॑तं॒ सोमं॒ मधु॑मन्तमश्वि॒ना ब॒र्हिः सी॑दतं सु॒मत् । ता वा॑वृधा॒ना उप॑ सुष्टु॒तिं दि॒वो ग॒न्तं गौ॒रावि॒वेरि॑णम् ॥
स्वर सहित पद पाठपिब॑तम् । सोम॑म् । मधु॑ऽमन्तम् । अ॒श्वि॒ना॒ । आ । ब॒र्हिः । सी॒द॒त॒म् । सु॒ऽमत् । ता । व॒वृ॒धा॒नौ । उप॑ । सु॒ऽस्तु॒तिम् । दि॒वः । ग॒न्तम् । गौ॒रौऽइ॑व । इरि॑णम् ॥
स्वर रहित मन्त्र
पिबतं सोमं मधुमन्तमश्विना बर्हिः सीदतं सुमत् । ता वावृधाना उप सुष्टुतिं दिवो गन्तं गौराविवेरिणम् ॥
स्वर रहित पद पाठपिबतम् । सोमम् । मधुऽमन्तम् । अश्विना । आ । बर्हिः । सीदतम् । सुऽमत् । ता । ववृधानौ । उप । सुऽस्तुतिम् । दिवः । गन्तम् । गौरौऽइव । इरिणम् ॥ ८.८७.४
ऋग्वेद - मण्डल » 8; सूक्त » 87; मन्त्र » 4
अष्टक » 6; अध्याय » 6; वर्ग » 10; मन्त्र » 4
अष्टक » 6; अध्याय » 6; वर्ग » 10; मन्त्र » 4
Meaning -
Ashvins, come from the light of heaven, sit together on the holy grass, drink the honey sweet soma like thirsty deer in the forest, and, exhilarated, listen to the song of adoration offered in honour of divinity.