Loading...
ऋग्वेद मण्डल - 9 के सूक्त 114 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 9/ सूक्त 114/ मन्त्र 1
    ऋषिः - कश्यपः देवता - पवमानः सोमः छन्दः - विराट्पङ्क्ति स्वरः - पञ्चमः

    य इन्दो॒: पव॑मान॒स्यानु॒ धामा॒न्यक्र॑मीत् । तमा॑हुः सुप्र॒जा इति॒ यस्ते॑ सो॒मावि॑ध॒न्मन॒ इन्द्रा॑येन्दो॒ परि॑ स्रव ॥

    स्वर सहित पद पाठ

    यः । इन्दोः॑ । पव॑मानस्य । अनु॑ । धामा॑नि । अक्र॑मीत् । तम् । आ॒हुः॒ । सु॒ऽप्र॒जाः । इति॑ । यः । ते॒ । सो॒म॒ । अवि॑न्धत् । मनः॑ । इन्द्रा॑य । इ॒न्दो॒ इति॑ । परि॑ । स्र॒व॒ ॥


    स्वर रहित मन्त्र

    य इन्दो: पवमानस्यानु धामान्यक्रमीत् । तमाहुः सुप्रजा इति यस्ते सोमाविधन्मन इन्द्रायेन्दो परि स्रव ॥

    स्वर रहित पद पाठ

    यः । इन्दोः । पवमानस्य । अनु । धामानि । अक्रमीत् । तम् । आहुः । सुऽप्रजाः । इति । यः । ते । सोम । अविन्धत् । मनः । इन्द्राय । इन्दो इति । परि । स्रव ॥ ९.११४.१

    ऋग्वेद - मण्डल » 9; सूक्त » 114; मन्त्र » 1
    अष्टक » 7; अध्याय » 5; वर्ग » 28; मन्त्र » 1

    Meaning -
    One who rises and lives upto the presence, rules and laws of vibrant omnipresent Soma, light of the world, they say, he is the man, fulfilled in the self and family. O Soma, spirit of light and joy divine, vibrate and bless the man who dedicates his mind and sense, will and action to your presence and law.

    इस भाष्य को एडिट करें
    Top