Loading...
ऋग्वेद मण्डल - 9 के सूक्त 78 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 9/ सूक्त 78/ मन्त्र 5
    ऋषिः - कविः देवता - पवमानः सोमः छन्दः - निचृज्जगती स्वरः - निषादः

    ए॒तानि॑ सोम॒ पव॑मानो अस्म॒युः स॒त्यानि॑ कृ॒ण्वन्द्रवि॑णान्यर्षसि । ज॒हि शत्रु॑मन्ति॒के दू॑र॒के च॒ य उ॒र्वीं गव्यू॑ति॒मभ॑यं च नस्कृधि ॥

    स्वर सहित पद पाठ

    ए॒तानि॑ । सो॒म॒ । पव॑मानः । अ॒स्म॒ऽयुः । स॒त्यानि॑ । कृ॒ण्वन् । द्रवि॑णानि । अ॒र्ष॒सि॒ । ज॒हि । शत्रु॑म् । अ॒न्ति॒के । दू॒र॒के । च॒ । यः । उ॒र्वीम् । गव्यू॑तिम् । अभ॑यम् । च॒ नः॒ । कृ॒धि॒ ॥


    स्वर रहित मन्त्र

    एतानि सोम पवमानो अस्मयुः सत्यानि कृण्वन्द्रविणान्यर्षसि । जहि शत्रुमन्तिके दूरके च य उर्वीं गव्यूतिमभयं च नस्कृधि ॥

    स्वर रहित पद पाठ

    एतानि । सोम । पवमानः । अस्मऽयुः । सत्यानि । कृण्वन् । द्रविणानि । अर्षसि । जहि । शत्रुम् । अन्तिके । दूरके । च । यः । उर्वीम् । गव्यूतिम् । अभयम् । च नः । कृधि ॥ ९.७८.५

    ऋग्वेद - मण्डल » 9; सूक्त » 78; मन्त्र » 5
    अष्टक » 7; अध्याय » 3; वर्ग » 3; मन्त्र » 5

    Meaning -
    O Soma, our well wisher, pure and purifying, these are the real and true acts of kindness and grace, doing which you vibrate for our prosperity, honour and excellence everywhere. Pray destroy our negativities and enemities far as well as near, and open for us the paths of progress wide, straight and free from fear.

    इस भाष्य को एडिट करें
    Top