ऋग्वेद - मण्डल 9/ सूक्त 83/ मन्त्र 1
प॒वित्रं॑ ते॒ वित॑तं ब्रह्मणस्पते प्र॒भुर्गात्रा॑णि॒ पर्ये॑षि वि॒श्वत॑: । अत॑प्ततनू॒र्न तदा॒मो अ॑श्नुते शृ॒तास॒ इद्वह॑न्त॒स्तत्समा॑शत ॥
स्वर सहित पद पाठप॒वित्र॑म् । ते॒ । विऽत॑तम् । ब्र॒ह्म॒णः॒ । प॒ते॒ । प्र॒ऽभुः । गात्रा॑णि । परि॑ । ए॒षि॒ । वि॒श्वतः॑ । अत॑प्तऽतनूः । न । तत् । आ॒मः । अ॒श्नु॒ते॒ । शृ॒तासः॑ । इत् । वह॑न्तः । तत् । सम् । आ॒श॒त॒ ॥
स्वर रहित मन्त्र
पवित्रं ते विततं ब्रह्मणस्पते प्रभुर्गात्राणि पर्येषि विश्वत: । अतप्ततनूर्न तदामो अश्नुते शृतास इद्वहन्तस्तत्समाशत ॥
स्वर रहित पद पाठपवित्रम् । ते । विऽततम् । ब्रह्मणः । पते । प्रऽभुः । गात्राणि । परि । एषि । विश्वतः । अतप्तऽतनूः । न । तत् । आमः । अश्नुते । शृतासः । इत् । वहन्तः । तत् । सम् । आशत ॥ ९.८३.१
ऋग्वेद - मण्डल » 9; सूक्त » 83; मन्त्र » 1
अष्टक » 7; अध्याय » 3; वर्ग » 8; मन्त्र » 1
अष्टक » 7; अध्याय » 3; वर्ग » 8; मन्त्र » 1
Meaning -
Vast and expansive is your holy creation of existence and the voice divine, O Brhaspati, lord of expansive universe. You are the master and supreme controller who pervade and transcend its parts from the particle to the whole. The immature man who has not passed through the crucibles of discipline cannot reach to that presence, but the mature and seasoned ones who still maintain the ordeal of fire and abide by the presence attain to it and the divine joy.