ऋग्वेद - मण्डल 9/ सूक्त 95/ मन्त्र 3
ऋषिः - प्रस्कण्वः
देवता - पवमानः सोमः
छन्दः - विराट्त्रिष्टुप्
स्वरः - धैवतः
अ॒पामि॒वेदू॒र्मय॒स्तर्तु॑राणा॒: प्र म॑नी॒षा ई॑रते॒ सोम॒मच्छ॑ । न॒म॒स्यन्ती॒रुप॑ च॒ यन्ति॒ सं चा च॑ विशन्त्युश॒तीरु॒शन्त॑म् ॥
स्वर सहित पद पाठअ॒पाम्ऽइ॑व । इत् । ऊ॒र्मयः॑ । तर्तु॑राणाः । प्र । म॒नी॒षाः । ई॒र॒ते॒ । सोम॑म् । अच्छ॑ । न॒म॒स्यन्तीः॑ । उप॑ । च॒ । यन्ति॑ । सम् । च॒ । आ । च॒ । वि॒श॒न्ति॒ । उ॒श॒तीः । उ॒शन्त॑म् ॥
स्वर रहित मन्त्र
अपामिवेदूर्मयस्तर्तुराणा: प्र मनीषा ईरते सोममच्छ । नमस्यन्तीरुप च यन्ति सं चा च विशन्त्युशतीरुशन्तम् ॥
स्वर रहित पद पाठअपाम्ऽइव । इत् । ऊर्मयः । तर्तुराणाः । प्र । मनीषाः । ईरते । सोमम् । अच्छ । नमस्यन्तीः । उप । च । यन्ति । सम् । च । आ । च । विशन्ति । उशतीः । उशन्तम् ॥ ९.९५.३
ऋग्वेद - मण्डल » 9; सूक्त » 95; मन्त्र » 3
अष्टक » 7; अध्याय » 4; वर्ग » 5; मन्त्र » 3
अष्टक » 7; अध्याय » 4; वर्ग » 5; मन्त्र » 3
Meaning -
Like waves of the sea pressing onward with force and speed, the songs of adoration rise and radiate with love to Soma. Expressive of ardent love, faith and reverence, they reach and join the divine presence which too is equally ardent and anxious to receive them.