Loading...

मन्त्र चुनें

  • यजुर्वेद का मुख्य पृष्ठ
  • यजुर्वेद - अध्याय 1/ मन्त्र 12
    ऋषिः - परमेष्ठी प्रजापतिर्ऋषिः देवता - अप्सवितारौ देवते छन्दः - भूरिक् अत्यष्टि, स्वरः - गान्धारः
    11

    प॒वित्रे॑ स्थो वैष्ण॒व्यौ सवि॒तुर्वः॑ प्रस॒व उत्पु॑ना॒म्यच्छि॑द्रेण प॒वित्रे॑ण॒ सूर्य्य॑स्य रश्मिभिः॑। देवी॑रापोऽअग्रेगुवोऽअग्रेपु॒वोऽग्र॑ऽइ॒मम॒द्य य॒ज्ञं न॑य॒ताग्रे॑ य॒ज्ञप॑तिꣳ सु॒धातुं॑ य॒ज्ञप॑तिं देव॒युव॑म्॥१२॥

    स्वर सहित पद पाठ

    प॒वित्रे॒ऽइति॑ प॒वित्रे॑। स्थः॒। वै॒ष्ण॒व्यौ᳖। स॒वि॒तुः। वः॒। प्र॒स॒व इति॑ प्र॒ऽस॒वे। उत्। पु॒ना॒मि॒। अच्छि॑द्रेण। प॒वित्रे॑ण। सूर्य्य॑स्य। र॒श्मिभि॒रिति॑ र॒श्मिऽभिः॑। देवीः॑। आ॒पः॒। अ॒ग्रे॒गु॒व॒ इत्य॑ग्रेऽगुवः। अ॒ग्रे॒पु॒व॒ इत्य॑ग्रेऽपुवः॒। अग्रे॑। इ॒मम्। अ॒द्य। य॒ज्ञम्। न॒य॒त॒। अग्रे॑। य॒ज्ञप॑ति॒मिति॑ य॒ज्ञऽप॑तिम्। सु॒धातु॒मिति॑ सु॒धाऽतु॑म्। य॒ज्ञप॑ति॒मिति॑ यज्ञऽप॑तिम्। दे॒व॒युव॒मिति॑ देव॒ऽयुव॑म् ॥१२॥


    स्वर रहित मन्त्र

    पवित्रे स्थो वैष्णव्यौ सवितुर्वः प्रसवऽउत्पुनाम्यच्छिद्रेण पवित्रेण सूर्यस्य रश्मिभिः । देवीरापोऽअग्रेगुवो अग्रेपुवोग्रऽइममद्ययज्ञन्नयताग्रे यज्ञपतिँ सुधातुँ यज्ञपतिन्देवयुवम् ॥


    स्वर रहित पद पाठ

    पवित्रेऽइति पवित्रे। स्थः। वैष्णव्यौ। सवितुः। वः। प्रसव इति प्रऽसवे। उत्। पुनामि। अच्छिद्रेण। पवित्रेण। सूर्य्यस्य। रश्मिभिरिति रश्मिऽभिः। देवीः। आपः। अग्रेगुव इत्यग्रेऽगुवः। अग्रेपुव इत्यग्रेऽपुवः। अग्रे। इमम्। अद्य। यज्ञम्। नयत। अग्रे। यज्ञपतिमिति यज्ञऽपतिम्। सुधातुमिति सुधाऽतुम्। यज्ञपतिमिति यज्ञऽपतिम्। देवयुवमिति देवऽयुवम्॥१२॥

    यजुर्वेद - अध्याय » 1; मन्त्र » 12
    Acknowledgment

    अन्वयः - हे विद्वांसो! यथा सवितुः परमेश्वरस्य प्रसवेऽस्मिन् संसारेऽच्छिद्रेण पवित्रेण सूर्य्यस्य रश्मिभिः पवित्रे शुद्धौ वैष्णव्यौ पवनपावकौ स्थो भवतः। यथा चैतैरग्रेगुवोऽग्रेपुवो [वः] देवीरापः पवित्रा भवेयुस्तथा शुद्धानि द्रव्याण्यग्नौ नयत प्रापयत तथैवाहमद्येमं यज्ञमग्रे नीत्वाऽग्रे सुधातुं यज्ञपतिं देवयुवं यज्ञपतिं चोत्पुनामि॥१२॥

    पदार्थः -
    (पवित्रे) पवित्रकरणहेतू प्राणापानगती (स्थः) भवतः। अत्र व्यत्ययः (वैष्णव्यौ) यज्ञस्येमौ व्याप्तिकर्त्तारौ पवनपावकौ तौ (सवितुः) जगदुत्पादकस्येश्वरस्य (वः) ताः। अत्र पुरुषव्यत्ययः (प्रसवे) उत्पन्नेऽस्मिन् जगति (उत्) धात्वर्थे। उदित्येतयोः प्रातिलोम्यं प्राह (निरु॰१।३) (पुनामि) पवित्रीकरोमि (अच्छिद्रेण) छिद्ररहितैः (पवित्रेण) शुद्धिकरणहेतुभिः (सूर्य्यस्य) प्रत्यक्षलोकस्य (रश्मिभिः) किरणैः (देवीः) दिव्यगुणयुक्ताः। अत्र सुपां सुलुग् [अष्टा॰७.१.३९] इति पूर्वसवर्णादेशः (आपः) जलानि (अग्रेगुवः) अग्रे समुद्रेऽन्तरिक्षे गच्छन्तीति ताः (अग्रेपुवः) प्रथमां पृथिवीस्थसोमौषधिं सेविकाः (अग्रे) पुरःसरत्वे क्रियासम्बन्धे (इमम्) प्रत्यक्षम् (अद्य) अस्मिन्नहनि (यज्ञम्) पूर्वोक्तम् (नयत) प्रापयत (अग्रे) (यज्ञपतिम्) यज्ञस्यानुष्ठातारं स्वामिनम् (सुधातुम्) शोभना धातवः शरीरस्था मन-आदयः सुवर्णादयो वा यस्य तम् (यज्ञपतिम्) यज्ञस्य कामयितारम् (देवयुवम्) देवान् विदुषो दिव्यगुणान् वा यौति प्राप्नोति प्रापयतीति वा तम्॥ अयं मन्त्रः (शत॰१।१।३।१-७) व्याख्यातः॥१२॥

    भावार्थः - अत्र लुप्तोपमालङ्कारः। ये पदार्थाः संयोगेन विकारं प्राप्नुवन्ति। अग्निना छिन्नाः पृथक् पृथक् परमाणवो भूत्वा वायौ विहरन्ति ते शुद्धा भवन्ति यथा यज्ञानुष्ठानेन वायुजलानामुत्तमे शुद्धिपुष्टी जायेते। न तथाऽन्येन भवितुमर्हतः तस्माद् होमक्रियाशुद्धैर्वाय्वग्निजलादिभिः शिल्पविद्यया यानानि साधयित्वा कामनासिद्धिं कुर्य्युः कारयेयुश्च या आपोऽस्मात् स्थानादुत्थाय समुद्रमन्तरिक्षं गच्छन्ति ततः पुनः पृथिव्यादिपदार्थानागच्छन्ति। ताः प्रथमाः संख्यायन्ते या मेघस्थास्ता द्वितीया इति॥ शतपथब्राह्मणे मेघस्य वृत्रस्य सूर्य्यलोकस्य च युद्धाख्यायिकयाऽस्य मन्त्रस्य व्याख्याने मेघविद्योक्ता॥१२॥

    इस भाष्य को एडिट करें
    Top