Loading...

मन्त्र चुनें

  • यजुर्वेद का मुख्य पृष्ठ
  • यजुर्वेद - अध्याय 31/ मन्त्र 8
    ऋषिः - नारायण ऋषिः देवता - पुरुषो देवता छन्दः - निचृदनुष्टुप् स्वरः - गान्धारः
    7

    तस्मा॒दश्वा॑ऽअजायन्त॒ ये के चो॑भ॒याद॑तः।गावो॑ ह जज्ञिरे॒ तस्मा॒त् तस्मा॑ज्जा॒ताऽअ॑जा॒वयः॑॥८॥

    स्वर सहित पद पाठ

    तस्मा॑त्। अश्वाः॑। अ॒जा॒य॒न्त॒। ये। के। च॒। उ॒भ॒याद॑तः। उ॒भ॒याद॑त॒ इत्यु॑भ॒यऽद॑तः ॥ गावः॑। ह॒। ज॒ज्ञि॒रे॒। तस्मा॑त्। तस्मा॑त्। जा॒ताः। अ॒जा॒वयः॑ ॥८ ॥


    स्वर रहित मन्त्र

    तस्मादश्वाऽअजायन्त ये के चोभयादतः । गावो ह जज्ञिरे तस्मात्तस्माज्जाताऽअजावयः ॥


    स्वर रहित पद पाठ

    तस्मात्। अश्वाः। अजायन्त। ये। के। च। उभयादतः। उभयादत इत्युभयऽदतः॥ गावः। ह। जज्ञिरे। तस्मात्। तस्मात्। जाताः। अजावयः॥८॥

    यजुर्वेद - अध्याय » 31; मन्त्र » 8
    Acknowledgment

    अन्वयः - हे मनुष्याः! युष्माकमश्वा ये के चोभयादतः सन्ति ते तस्मादजायन्त। तस्माद् गावो ह जज्ञिरे तस्मादजावयो जाता इति वेद्यम्॥८॥

    पदार्थः -
    (तस्मात्) परमेश्वरात् (अश्वाः) तुरङ्गाः (अजायन्त) उत्पन्नाः (ये) (के) (च) गर्द्दभादयः (उभयादतः) उभयोरध ऊर्ध्वभागयोर्दन्ता येषान्ते (गावः) धेनवः। गाव इत्युपलक्षणमेकदताम्। (ह) किल (जज्ञिरे) उत्पन्नाः (तस्मात्) (तस्मात्) (जाताः) उत्पन्नाः (अजावयः) अजाश्चावयश्च ते॥८॥

    भावार्थः - हे मनुष्याः! यूयं गवाश्वादयो ग्राम्याः सर्वे पशवो यस्मात् सनातनात् पूर्णात् पुरुषादेवोत्पन्नास्तस्याज्ञोल्लङ्घनं कदापि मा कुरुत॥८॥

    इस भाष्य को एडिट करें
    Top