Loading...

मन्त्र चुनें

  • यजुर्वेद का मुख्य पृष्ठ
  • यजुर्वेद - अध्याय 6/ मन्त्र 8
    ऋषिः - दीर्घतमा ऋषिः देवता - बृहस्पतिर्देवता छन्दः - प्राजापत्या अनुष्टुप्,भूरिक् प्राजापत्या बृहती, स्वरः - ऋषभः
    7

    रेव॑ती॒ रम॑ध्वं॒ बृह॑स्पते धा॒रया॒ वसू॑नि। ऋ॒तस्य॑ त्वा देवहविः॒ पाशे॑न प्रति॑मुञ्चामि॒ धर्षा॒ मानु॑षः॥८॥

    स्वर सहित पद पाठ

    रेव॑तीः। रम॑ध्वम्। बृह॑स्पते। धा॒रय॑। वसू॑नि। ऋ॒तस्य॑। त्वा॒। दे॒व॒ह॒वि॒रिति॑ देवऽहविः। पाशे॑न। प्रति॑। मु॒ञ्चा॒मि॒। धर्ष॑। मानु॑षः ॥८॥


    स्वर रहित मन्त्र

    रेवती रमध्वं बृहस्पते धारया वसूनि । ऋतस्य त्वा देवहविः पाशेन प्रति मुञ्चामि धर्षा मानुषः ॥


    स्वर रहित पद पाठ

    रेवतीः। रमध्वम्। बृहस्पते। धारय। वसूनि। ऋतस्य। त्वा। देवहविरिति देवऽहविः। पाशेन। प्रति। मुञ्चामि। धर्ष। मानुषः॥८॥

    यजुर्वेद - अध्याय » 6; मन्त्र » 8
    Acknowledgment

    अन्वयः - हे रेवतीः रेवत्यः प्रजा! यूयं विद्यासु शिक्षासु रमध्वम्। हे बृहस्पतये! त्वमृतस्य वसूनि धारय। अथ शिष्यायोपदिशति गुरुः। हे राजन्! प्रजाजन वा! मानुषोऽहं पाशेनाविद्याबन्धनेन देवहविर्यथा तथा त्वां प्रतिमुञ्चामि त्वं विद्यासुशिक्षासु धर्ष धृष्टो भव॥८॥

    पदार्थः -
    (रेवतीः) रायः प्रशस्तानि धनानि विद्यन्ते यासु ताः प्रजाः (रमध्वम्) क्रीडध्वम् (बृहस्पते) बृहत्या वेदवाचः पते पातः परमविद्वन्! (धारय) अत्र अन्येषामपि दृश्यते। (अष्टा॰६।३।१३७) इति दीर्घः। (वसूनि) (ऋतस्य) सत्यन्यायाख्ययज्ञस्य (देवहविः) यथा देवानां हविरादातुमर्हं चरित्रमस्ति तथा (पाशेन) बन्धनेन (प्रति) (मुञ्चामि) (धर्ष) धृष्णुहि। द्व्यचोऽतस्तिङः। (अष्टा॰६।३।१३५) इति दीर्घः। विकरणव्यत्ययेन शप् च (मानुषः) सर्वशास्त्रमननशीलः॥ अयं मन्त्रः (शत॰३। ७। ३। १३) व्याख्यातः॥८॥

    भावार्थः - विद्वद्भिः सुशिक्षया कुमाराणां कुमारीणां च जगदीश्वरात् पृथिवीपर्यन्तं पदार्थानां बोधः सम्पादनीयो यतस्ते मूर्खत्वबन्धनं परित्यज्य सदा सुखिनः स्युरिति॥८॥

    इस भाष्य को एडिट करें
    Top