Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 1001
ऋषिः - असितः काश्यपो देवलो वा देवता - पवमानः सोमः छन्दः - गायत्री स्वरः - षड्जः काण्ड नाम -
4

यु꣣व꣡ꣳ हि स्थः स्वः꣢꣯पती꣣ इ꣡न्द्र꣢श्च सोम꣣ गो꣡प꣢ती । ई꣣शाना꣡ पि꣢प्यतं꣣ धि꣡यः꣢ ॥१००१॥

स्वर सहित पद पाठ

युव꣢म् । हि । स्थः । स्व꣢पती । स्वाऽ३रि꣡ति꣢ । प꣣तीइ꣡ति꣢ । इ꣡न्द्रः꣢꣯ । च꣣ । सोम । गो꣡प꣢꣯ती । गो । प꣣तीइ꣡ति꣢ । ई꣣शा꣢ना । पि꣣प्यतम् । धि꣡यः꣢꣯ ॥१००१॥


स्वर रहित मन्त्र

युवꣳ हि स्थः स्वःपती इन्द्रश्च सोम गोपती । ईशाना पिप्यतं धियः ॥१००१॥


स्वर रहित पद पाठ

युवम् । हि । स्थः । स्वपती । स्वाऽ३रिति । पतीइति । इन्द्रः । च । सोम । गोपती । गो । पतीइति । ईशाना । पिप्यतम् । धियः ॥१००१॥

सामवेद - मन्त्र संख्या : 1001
(कौथुम) उत्तरार्चिकः » प्रपाठक » 3; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 13; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 6; खण्ड » 4; सूक्त » 3; मन्त्र » 3
Acknowledgment

पदार्थः -
हे (सोम) जगत्स्रष्टः परमात्मन् ! त्वम् (इन्द्रः च) अज्ञानविदारकः आचार्यश्च (युवम् हि) युवाम् खलु उभावपि (स्वःपती) ज्ञानप्रकाशस्य स्वामिनौ, (गोपती) वाक्पती च (स्थः) विद्येथे। (ईशाना) ईशानौ ज्ञानस्य वाचश्च स्वामिनौ युवाम् अस्माकम् (धियः) सत्प्रज्ञाः सत्कर्माणि च (पिप्यतम्) वर्धयतम्। [ओप्यायी वृद्धौ, प्यायः पी] ॥३॥

भावार्थः - परमात्मन उपासनेन गुरोश्च सत्कारेण श्रेष्ठं सत्यं ज्ञानं प्राप्य तदनुकूलानि कर्माणि च कृत्वा मनुष्याः स्वजीवनमुन्नेतुं पारयन्ति ॥३॥ अस्मिन् खण्डे परमात्मनो ब्रह्मानन्दरसस्याऽऽचार्यस्य प्रसङ्गतश्च गवां गोदुग्धक्षारणस्य च वर्णनादेतत्खण्डस्य पूर्वखण्डेन संगतिरस्ति ॥

इस भाष्य को एडिट करें
Top