Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 1008
ऋषिः - जमदग्निर्भार्गवः
देवता - पवमानः सोमः
छन्दः - गायत्री
स्वरः - षड्जः
काण्ड नाम -
5
अ꣡सा꣢व्य꣣ꣳशु꣡र्मदा꣢꣯या꣣प्सु꣡ दक्षो꣢꣯ गिरि꣣ष्ठाः꣢ । श्ये꣣नो꣢꣫ न योनि꣣मा꣡स꣢दत् ॥१००८॥
स्वर सहित पद पाठअ꣡सा꣢꣯वि । अ꣣ꣳशुः꣢ । म꣡दा꣢꣯य । अ꣡प्सु꣢ । द꣡क्षः꣢꣯ । गि꣣रि꣢ष्ठाः । गि꣣रि । स्थाः꣢ । श्ये꣣नः꣢ । न । यो꣡नि꣢꣯म् । आ । अ꣣सदत् ॥१००८॥
स्वर रहित मन्त्र
असाव्यꣳशुर्मदायाप्सु दक्षो गिरिष्ठाः । श्येनो न योनिमासदत् ॥१००८॥
स्वर रहित पद पाठ
असावि । अꣳशुः । मदाय । अप्सु । दक्षः । गिरिष्ठाः । गिरि । स्थाः । श्येनः । न । योनिम् । आ । असदत् ॥१००८॥
सामवेद - मन्त्र संख्या : 1008
(कौथुम) उत्तरार्चिकः » प्रपाठक » 3; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 16; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 6; खण्ड » 6; सूक्त » 1; मन्त्र » 1
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 3; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 16; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 6; खण्ड » 6; सूक्त » 1; मन्त्र » 1
Acknowledgment
विषयः - तत्र प्रथमा ऋक् पूर्वार्चिके ४७३ क्रमाङ्के आनन्दरसविषये व्याख्याता। अत्र सोमौषधिरसविषयो ज्ञानरसविषयश्च वर्ण्यते।
पदार्थः -
प्रथमः—सोमौषधिरसविषये। (गिरिष्ठाः) पर्वतेषु उत्पन्नः, (दक्षः) बलप्रदः (अंशुः) सोमौषधिरसः (मदाय) पाने सति उत्साहवर्धनाय (अप्सु) उदकेषु (असावि) अभिषुतोऽस्ति। (श्येनः न योनिम्) श्येनपक्षी यथा स्वनीडम् आगत्य स्थितो भवति, तथा एष सोमौषधिरसः (योनिम्) द्रोणकलशम् (आसदत्) आगत्य स्थितोऽस्ति ॥ द्वितीयः—ज्ञानरसविषये। (गिरिष्ठाः) वेदवाचि स्थितः, (दक्षः) आत्मबलप्रदः (अंशुः) ज्ञानरसः (मदाय) आनन्दप्रापणाय (अप्सु) विद्यार्थिनां कर्मसु (असावि) आचार्येण अभिषूयते। (श्येनः न योनिम्) श्येनपक्षी यथा स्वनीडम् आगत्य स्थितो भवति तथा एष ज्ञानरसः (योनिम्) जीवात्मरूपं सदनम् (आसदत्) आगत्य स्थितो भवति ॥१॥ अत्रोपमालङ्कारः श्लेषश्च ॥१॥
भावार्थः - कर्मरहितं केवलं ज्ञानं नीरसं निष्फलं च भवति ॥१॥
टिप्पणीः -
१. ऋ० ९।६२।४, साम० ४७३।