Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 101
ऋषिः - त्रित आप्त्यः
देवता - पवमानः सोमः
छन्दः - उष्णिक्
स्वरः - ऋषभः
काण्ड नाम - आग्नेयं काण्डम्
3
ज꣣ज्ञानः꣢ स꣣प्त꣢ मा꣣तृ꣡भि꣢र्मे꣣धा꣡माशा꣢꣯सत श्रि꣣ये꣢ । अ꣣यं꣢ ध्रु꣣वो꣡ र꣢यी꣣णां꣡ चि꣢केत꣣दा꣢ ॥१०१॥
स्वर सहित पद पाठज꣣ज्ञानः꣢ । स꣣प्त꣢ । मा꣣तृ꣡भिः꣢ । मे꣣धा꣢म् । आ । अ꣣शासत । श्रिये꣢ । अ꣣य꣢म् । ध्रु꣣वः꣢ । र꣣यीणा꣢म् । चि꣣केतत् । आ꣢ ॥१०१॥
स्वर रहित मन्त्र
जज्ञानः सप्त मातृभिर्मेधामाशासत श्रिये । अयं ध्रुवो रयीणां चिकेतदा ॥१०१॥
स्वर रहित पद पाठ
जज्ञानः । सप्त । मातृभिः । मेधाम् । आ । अशासत । श्रिये । अयम् । ध्रुवः । रयीणाम् । चिकेतत् । आ ॥१०१॥
सामवेद - मन्त्र संख्या : 101
(कौथुम) पूर्वार्चिकः » प्रपाठक » 2; अर्ध-प्रपाठक » 1; दशतिः » 1; मन्त्र » 5
(राणानीय) पूर्वार्चिकः » अध्याय » 1; खण्ड » 11;
Acknowledgment
(कौथुम) पूर्वार्चिकः » प्रपाठक » 2; अर्ध-प्रपाठक » 1; दशतिः » 1; मन्त्र » 5
(राणानीय) पूर्वार्चिकः » अध्याय » 1; खण्ड » 11;
Acknowledgment
विषयः - अथ पवमानो देवता। तस्य कल्याणकारित्वं वर्ण्यते।
पदार्थः -
पवमानः सोमः चित्तशोधकः परमात्मा (सप्त२) सप्तभिः। अत्र सुपां सुलुक्० अ० ७।२।३९ इति भिसो लुक्। (मातृभिः) मातृभूताभिः गायत्र्यादिच्छन्दोमयीभिः वेदवाग्भिः (जज्ञानः) उपासकस्य हृदये प्रादुर्भूतः सन्। जनी प्रादुर्भावे लिटः कानच्। (श्रिये) सम्पदे सम्पत्प्राप्त्यर्थमिति यावत्। (मेधाम्) धारणावतीं बुद्धिम् (आ अशासत) प्रयच्छति। आङः शासु इच्छायाम्, भ्वादिः, बहुलं छन्दसि।’ अ० २।४।७३ इति शपो लुक् न। येन (ध्रुवः) स्थितप्रज्ञः सन् (अयम्) एष उपासकः (रयीणाम्) श्रेष्ठा अध्यात्मसम्पदः। अत्र द्वितीयार्थे षष्ठी। (आ चिकेतत्) प्राप्नोति। कित ज्ञाने, भ्वादिः। लेटि बहुलं छन्दसि। अ० २।४।७६ इति शपः श्लुः ॥५॥
भावार्थः - गायत्र्यादिसप्तच्छन्दोबद्धानां वेदवाचां गानेन परमात्मसान्निध्यं प्राप्नुवतो योगिन ऋतम्भराप्रज्ञोदयात् सर्वा अपि अध्यात्मसम्पदो हस्तगता भवन्ति ॥५॥
टिप्पणीः -
१. ऋ० ९।१०२।४, जज्ञानं सप्त मातरो वेधामशासत श्रिये। अयं ध्रुवो रयीणां चिकेत यत् ॥—इति पाठः। २. सप्तसंख्याकाः मातरः निर्मातारः आदित्याद्याः, अथवा सप्त मातरः सप्त छन्दांसि, अथवा सप्त होताः, अथवा सप्त सोमसंस्थाः—इति वि०। सप्त सप्तभिः सर्पणशीलाभिः मातृभिः अद्भिः वसतीवरीभिः संसृष्टा अभिषूयन्ते सोमाः—इति भ०। सप्त सप्तसंख्याकाभिः मातृभिः हविर्मानसमर्थाभिर्जिह्वाभिः, स्वात्मनि हविः प्रक्षेप्त्रीभिर्वा जिह्वाभिः सह जज्ञानः प्रादुर्भूतः सोऽग्निः—इति सा०।