Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 1017
ऋषिः - रेभसूनू काश्यपौ
देवता - पवमानः सोमः
छन्दः - अनुष्टुप्
स्वरः - गान्धारः
काण्ड नाम -
5
त्वा꣡ꣳ रि꣢꣯हन्ति धी꣣त꣢यो꣣ ह꣡रिं꣢ प꣣वि꣡त्रे꣢ अ꣣द्रु꣡हः꣢ । व꣣त्सं꣢ जा꣣तं꣢꣫ न मा꣣त꣢रः꣣ प꣡व꣢मा꣣न वि꣡ध꣢र्मणि ॥१०१७॥
स्वर सहित पद पाठत्वाम् । रि꣣हन्ति । धीत꣡यः꣢ । ह꣡रि꣢꣯म् । प꣣वि꣡त्रे꣢ । अ꣣द्रु꣡हः꣢ । अ꣣ । द्रु꣡हः꣢꣯ । व꣡त्स꣢म् । जा꣣त꣢म् । न । मा꣣त꣡रः꣢ । प꣡वमा꣢꣯न । वि꣡ध꣢꣯र्मणि । वि । ध꣣र्मणि ॥१०१७॥
स्वर रहित मन्त्र
त्वाꣳ रिहन्ति धीतयो हरिं पवित्रे अद्रुहः । वत्सं जातं न मातरः पवमान विधर्मणि ॥१०१७॥
स्वर रहित पद पाठ
त्वाम् । रिहन्ति । धीतयः । हरिम् । पवित्रे । अद्रुहः । अ । द्रुहः । वत्सम् । जातम् । न । मातरः । पवमान । विधर्मणि । वि । धर्मणि ॥१०१७॥
सामवेद - मन्त्र संख्या : 1017
(कौथुम) उत्तरार्चिकः » प्रपाठक » 3; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 19; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 6; खण्ड » 6; सूक्त » 4; मन्त्र » 2
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 3; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 19; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 6; खण्ड » 6; सूक्त » 4; मन्त्र » 2
Acknowledgment
विषयः - अथ जगदीश्वरं वर्णयति।
पदार्थः -
हे (पवमान) पवित्रतासम्पादक रसागार जगदीश्वर ! (हरिम्) पापहारिणम् (त्वाम्) विधर्मणि विशेषेण सद्गुणानां धारके, (पवित्रे) निर्मले अन्तरात्मनि (अद्रुहः) द्रोहरहिताः (धीतयः) धीवृत्तयः (रिहन्ति) लिहन्ति, ध्यायन्ति, (जातम्) नवजातम् (वत्सम्) तर्णकम् (मातरः न) गावो यथा रिहन्ति लिहन्ति तद्वत् ॥२॥
भावार्थः - यथा धेनवो स्ववत्सं जिह्वया लिहन्त्य आनन्दमनुभवन्ति तथैव मनुष्याः परमात्मानं ध्यायन्त आनन्देन तरङ्गिता जायन्ते ॥२॥
टिप्पणीः -
१. ऋ० ९।१००।७, ‘धीतयो’ इत्यत्र ‘मा॒तरो॒’, ‘मातरः’ इत्यत्र ‘धे॒नवः॒’ इति भेदः।