Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 1021
ऋषिः - मन्युर्वासिष्ठः देवता - पवमानः सोमः छन्दः - त्रिष्टुप् स्वरः - धैवतः काण्ड नाम -
6

अ꣣भि꣢ व्र꣣ता꣡नि꣢ पवते पुना꣣नो꣢ दे꣣वो꣢ दे꣣वा꣢꣫न्त्स्वेन꣣ र꣡से꣢न पृ꣣ञ्च꣢न् । इ꣢न्दु꣣र्ध꣡र्मा꣢ण्यृतु꣣था꣡ वसा꣢꣯नो꣣ द꣢श꣣ क्षि꣡पो꣢ अव्यत꣣ सा꣢नौ꣣ अ꣡व्ये꣢ ॥१०२१॥

स्वर सहित पद पाठ

अ꣣भि꣢ । व्र꣣ता꣡नि꣢ । प꣣वते । पुनानः꣢ । दे꣣वः꣢ । दे꣣वा꣢न् । स्वे꣡न꣢꣯ । र꣡से꣢꣯न । पृ꣣ञ्च꣢न् । इ꣡न्दुः꣢꣯ । ध꣡र्मा꣢꣯णि । ऋ꣣तुथा꣢ । व꣡सा꣢꣯नः । द꣡श꣢꣯ । क्षि꣡पः꣢꣯ । अ꣡व्यत । सा꣡नौ꣢꣯ । अ꣡व्ये꣢꣯ ॥१०२१॥


स्वर रहित मन्त्र

अभि व्रतानि पवते पुनानो देवो देवान्त्स्वेन रसेन पृञ्चन् । इन्दुर्धर्माण्यृतुथा वसानो दश क्षिपो अव्यत सानौ अव्ये ॥१०२१॥


स्वर रहित पद पाठ

अभि । व्रतानि । पवते । पुनानः । देवः । देवान् । स्वेन । रसेन । पृञ्चन् । इन्दुः । धर्माणि । ऋतुथा । वसानः । दश । क्षिपः । अव्यत । सानौ । अव्ये ॥१०२१॥

सामवेद - मन्त्र संख्या : 1021
(कौथुम) उत्तरार्चिकः » प्रपाठक » 3; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 20; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 6; खण्ड » 6; सूक्त » 5; मन्त्र » 3
Acknowledgment

पदार्थः -
(देवः) दिव्यगुणमयः ब्रह्मानन्दरूपः सोमरसः (देवान्) मनोबुद्धिप्राणेन्द्रियादीन् (पुनानः) पवित्रीकुर्वन् (स्वेन रसेन) आत्मनीनेन रसेन (पृञ्चन्) स्नपयन् (व्रतानि अभि) कर्माणि अभिलक्ष्य, कर्मसु इत्यर्थः (पवते) प्रवाहितो भवति। (इन्दुः) क्लेदकः आनन्दरसः (ऋतुथा) ऋतौ ऋतौ, काले काले। [ऋतुथा ऋतावृतौ। निरु० ८।१६, ऋतुथा काले काले। निरु० १२।२७।] (धर्माणि) सत्यन्यायदयादीन् धर्मान् (वसानः) धारयन् (दश क्षिपः) दश इन्द्रियाणि दश प्राणान् वा। [क्षिप्यन्ते स्वस्वविषयेषु देहस्याङ्गेषु वा इति क्षिपः इन्द्रियाणि प्राणा वा।] (अव्ये सानौ) गन्तुं योग्ये उन्नतिशिखरे। [अवतिर्गत्यर्थः, अवितुं गन्तुं योग्यम् अव्यम्।] (अव्यत)प्रापयति। [अवतेर्गत्यर्थाद् णिज्गर्भाद् विकरणव्यत्ययेन श्यनि लङि रूपम्। आडभावश्छान्दसः] ॥३॥

भावार्थः - ब्रह्मानन्दरसो यदा जीवनमभिव्याप्नोति तदा मनुष्यस्य सर्वाण्यङ्गानि सर्वान् प्राणान् सर्वाणि मनोबुद्ध्यादीनि च स्वप्रभावेण नर्तयन्निव चमत्करोति ॥३॥ अस्मिन् खण्डे आचार्यस्य ज्ञानरसस्य परमात्मनो ब्रह्मानन्दरसस्य च वर्णनादेतत्खण्डस्य पूर्वखण्डेन संगतिरस्ति ॥

इस भाष्य को एडिट करें
Top