Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 1026
ऋषिः - नृमेध आङ्गिरसः
देवता - इन्द्रः
छन्दः - उष्णिक्
स्वरः - ऋषभः
काण्ड नाम -
8
त्व꣡मि꣢न्द्राभि꣣भू꣡र꣢सि꣣ त्व꣡ꣳ सूर्य꣢꣯मरोचयः । वि꣣श्व꣡क꣢र्मा वि꣣श्व꣡दे꣢वो म꣣हा꣡ꣳ अ꣢सि ॥१०२६॥
स्वर सहित पद पाठत्वम् । इ꣣न्द्र । अभिभूः꣢ । अ꣣भि । भूः꣢ । अ꣣सि । त्व꣢म् । सू꣡र्य꣢꣯म् । अ꣣रोचयः । विश्व꣡क꣢र्मा । वि꣣श्व꣢ । क꣣र्मा । विश्व꣡दे꣢वः । वि꣣श्व꣢ । दे꣣वः । महा꣢न् । अ꣣सि ॥१०२६॥
स्वर रहित मन्त्र
त्वमिन्द्राभिभूरसि त्वꣳ सूर्यमरोचयः । विश्वकर्मा विश्वदेवो महाꣳ असि ॥१०२६॥
स्वर रहित पद पाठ
त्वम् । इन्द्र । अभिभूः । अभि । भूः । असि । त्वम् । सूर्यम् । अरोचयः । विश्वकर्मा । विश्व । कर्मा । विश्वदेवः । विश्व । देवः । महान् । असि ॥१०२६॥
सामवेद - मन्त्र संख्या : 1026
(कौथुम) उत्तरार्चिकः » प्रपाठक » 3; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 22; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 6; खण्ड » 7; सूक्त » 2; मन्त्र » 2
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 3; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 22; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 6; खण्ड » 7; सूक्त » 2; मन्त्र » 2
Acknowledgment
विषयः - अथ परमेश्वरस्य गुणकर्माणि वर्ण्यन्ते।
पदार्थः -
हे (इन्द्र) जगदीश्वर ! (त्वम्) अभिभूः सर्वेषां विघ्नानां कामक्रोधादिशत्रूणां वा अभिभविता (असि) वर्तसे। (त्वम् सूर्यम्) आदित्यम् (अरोचयः) दीपितवानसि। त्वम् (विश्वकर्मा) सर्वकर्मा, (विश्वदेवः) सर्वमोदकः।[विश्वान् सर्वान् सज्जनान् देवयति मोदयते यः सः। दिवुः मोदार्थः।] (महान्) महामहिमश्च (असि) वर्तसे ॥२॥
भावार्थः - यो जगदुत्पत्तिस्थितिप्रकाशनादिकर्मभिरानन्दप्रदानेन चास्मानुपकरोति तस्याऽनन्तमहिम्नः परमेश्वरस्य स्तुतिगीतानि सर्वैर्गातव्यानि ॥२॥
टिप्पणीः -
१. ऋ० ८।९८।२, अथ० २०।६२।६।