Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 1027
ऋषिः - नृमेध आङ्गिरसः देवता - इन्द्रः छन्दः - उष्णिक् स्वरः - ऋषभः काण्ड नाम -
5

वि꣣भ्रा꣢ज꣣न् ज्यो꣡ति꣢षा꣣ स्व꣢३꣱र꣡ग꣢च्छो रोच꣣नं꣢ दि꣣वः꣢ । दे꣣वा꣡स्त꣢ इन्द्र स꣣ख्या꣡य꣢ येमिरे ॥१०२७॥

स्वर सहित पद पाठ

विभ्रा꣡ज꣢न् । वि꣣ । भ्रा꣡ज꣢꣯न् । ज्यो꣡ति꣢꣯षा । स्वः꣢ । अ꣡ग꣢꣯च्छः । रो꣣चन꣢म् । दि꣣वः꣢ । दे꣣वाः꣢ । ते꣣ । इन्द्र । सख्या꣡य꣢ । स । ख्या꣡य꣢꣯ । ये꣣मिरे ॥१०२७॥


स्वर रहित मन्त्र

विभ्राजन् ज्योतिषा स्व३रगच्छो रोचनं दिवः । देवास्त इन्द्र सख्याय येमिरे ॥१०२७॥


स्वर रहित पद पाठ

विभ्राजन् । वि । भ्राजन् । ज्योतिषा । स्वः । अगच्छः । रोचनम् । दिवः । देवाः । ते । इन्द्र । सख्याय । स । ख्याय । येमिरे ॥१०२७॥

सामवेद - मन्त्र संख्या : 1027
(कौथुम) उत्तरार्चिकः » प्रपाठक » 3; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 22; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 6; खण्ड » 7; सूक्त » 2; मन्त्र » 3
Acknowledgment

पदार्थः -
हे (इन्द्र) महामहिम जगत्पते ! (ज्योतिषा) तेजसा (विभ्राजन्) भ्राजमानः। [भ्राजृ दीप्तौ, परस्मैपदं छान्दसम्।] त्वम् (दिवः) द्युलोकस्य (रोचनम्) दीप्तिमत् (स्वः) सूर्यम्। [स्वः आदित्यो भवति। सु-अरणः, सु-ईरणः, स्वृतो रसान्, स्वृतो भासं ज्योतिषां, स्वृतो भासेति वा। निरु० २।१४।] (अगच्छः) प्राप्तोऽसि। [योऽसावा॑दि॒त्ये पुरु॑षः॒ सोऽसाव॒हम्। य० ४०।१७। इति श्रुतेः।] (देवाः) विद्वांसः (ते) तव (सख्याय) सखित्वाय (येमिरे) स्वात्मानं नियच्छन्ति। [यमु उपरमे भ्वादिः, लडर्थे लिट्, आत्मनेपदं छान्दसम्] ॥३॥

भावार्थः - ज्योतिष्मतः परमेश्वरादेव ज्योतिर्लब्ध्वा वह्निविद्युत्सूर्यनक्षत्ररजतसुवर्ण- हीरकादिकं सर्वं भासते। अतो मनुष्यैरपि ज्योतिर्लाभाय तस्य सख्यमाश्रयणीयम् ॥३॥

इस भाष्य को एडिट करें
Top