Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 1028
ऋषिः - गोतमो राहूगणः
देवता - इन्द्रः
छन्दः - अनुष्टुप्
स्वरः - गान्धारः
काण्ड नाम -
4
अ꣡सा꣢वि꣣ सो꣡म꣢ इन्द्र ते꣣ श꣡वि꣢ष्ठ धृष्ण꣣वा꣡ ग꣢हि । आ꣡ त्वा꣢ पृणक्त्विन्द्रि꣣य꣢꣫ꣳ रजः꣣ सू꣢र्यो꣣ न꣢ र꣣श्मि꣡भिः꣢ ॥१०२८॥
स्वर सहित पद पाठअ꣡सा꣢꣯वि । सो꣡मः꣢꣯ । इ꣣न्द्र । ते । श꣡वि꣢꣯ष्ठ । धृ꣣ष्णो । आ꣢ । ग꣣हि । आ꣢ । त्वा꣣ । पृणक्तु । इन्द्रिय꣢म् । र꣡जः꣢꣯ । सू꣡र्यः꣢꣯ । न । र꣣श्मि꣡भिः꣢ ॥१०२८॥
स्वर रहित मन्त्र
असावि सोम इन्द्र ते शविष्ठ धृष्णवा गहि । आ त्वा पृणक्त्विन्द्रियꣳ रजः सूर्यो न रश्मिभिः ॥१०२८॥
स्वर रहित पद पाठ
असावि । सोमः । इन्द्र । ते । शविष्ठ । धृष्णो । आ । गहि । आ । त्वा । पृणक्तु । इन्द्रियम् । रजः । सूर्यः । न । रश्मिभिः ॥१०२८॥
सामवेद - मन्त्र संख्या : 1028
(कौथुम) उत्तरार्चिकः » प्रपाठक » 3; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 23; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 6; खण्ड » 7; सूक्त » 3; मन्त्र » 1
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 3; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 23; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 6; खण्ड » 7; सूक्त » 3; मन्त्र » 1
Acknowledgment
विषयः - तत्र प्रथमा ऋक् पूर्वार्चिके ३४७ क्रमाङ्के जीवात्मसेनाध्यक्षयोर्विषये व्याख्याता। अत्र परमात्मा जीवात्मानं ब्रूते।
पदार्थः -
हे (इन्द्र) सखे जीवात्मन् ! मया (ते) तुभ्यम् (सोमः) आनन्दरसः (असावि) अभिषुतोऽस्ति। हे (शविष्ठ) बलिष्ठ ! हे (धृष्णो) कामादिशत्रूणां धर्षणशील ! (आगहि) आगच्छ। (इन्द्रियम्) आत्मबलम् (त्वा) त्वाम् (आ पृणक्तु) आपूरयतु, (सूर्यः न) आदित्यो यथा (रश्मिभिः) किरणैः (रजः) पृथिवीचन्द्रादिकं लोकम् आपृणक्ति आपूरयति ॥१॥२ अत्रोपमालङ्कारः ॥१॥
भावार्थः - परमात्मना सख्यं कृत्वा जीवात्माऽविच्छिन्नामानन्दरसधारामनन्त- मात्मबलं च लभते ॥१॥
टिप्पणीः -
१. ऋ० १।८४।१, साम० ३४७। २. ऋग्भाष्ये दयानन्दर्षिमन्त्रमेतं सेनाध्यक्षपक्षे व्याचष्टे।