Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 1029
ऋषिः - गोतमो राहूगणः
देवता - इन्द्रः
छन्दः - अनुष्टुप्
स्वरः - गान्धारः
काण्ड नाम -
6
आ꣡ ति꣢ष्ठ वृत्रह꣣न्र꣡थं꣢ यु꣣क्ता꣢ ते꣣ ब्र꣡ह्म꣢णा꣣ ह꣡री꣢ । अ꣡र्वाची꣢न꣣ꣳ सु꣢ ते꣣ म꣢नो꣣ ग्रा꣡वा꣢ कृणोतु व꣣ग्नु꣡ना꣢ ॥१०२९॥
स्वर सहित पद पाठआ । ति꣣ष्ठ । वृत्रहन् । वृत्र । हन् । र꣡थ꣢꣯म् । यु꣣क्ता꣢ । ते꣣ । ब्र꣡ह्म꣢꣯णा । हरी꣣इ꣡ति꣢ । अ꣣र्वाची꣡न꣢म् । अ꣣र्व । अची꣡न꣢म् । सु । ते꣣ । म꣡नः꣢꣯ । ग्रा꣡वा꣢꣯ । कृ꣣णोतु । वग्नु꣡ना꣢ ॥१०२९॥
स्वर रहित मन्त्र
आ तिष्ठ वृत्रहन्रथं युक्ता ते ब्रह्मणा हरी । अर्वाचीनꣳ सु ते मनो ग्रावा कृणोतु वग्नुना ॥१०२९॥
स्वर रहित पद पाठ
आ । तिष्ठ । वृत्रहन् । वृत्र । हन् । रथम् । युक्ता । ते । ब्रह्मणा । हरीइति । अर्वाचीनम् । अर्व । अचीनम् । सु । ते । मनः । ग्रावा । कृणोतु । वग्नुना ॥१०२९॥
सामवेद - मन्त्र संख्या : 1029
(कौथुम) उत्तरार्चिकः » प्रपाठक » 3; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 23; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 6; खण्ड » 7; सूक्त » 3; मन्त्र » 2
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 3; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 23; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 6; खण्ड » 7; सूक्त » 3; मन्त्र » 2
Acknowledgment
विषयः - अथ परमेश्वरो जीवात्मानं नवजन्मनि देहं प्रवेशयति।
पदार्थः -
हे (वृत्रहन्) पापविघ्नादीन् हन्तः जीवात्मन् ! त्वम् (रथम्) नूतनं देहरूपं रथम् (आ तिष्ठ) अधिरोह। (ब्रह्मणा) परमेश्वरेण मया (ते) तुभ्यम् (हरी) प्राणापानौ ज्ञानकर्मेन्द्रिये वा (युक्ता) युक्तौ, नियुक्तौ स्तः। कुमारावस्थायां गुरुकुलप्रवेशानन्तरं (ग्रावा) विद्वान् उपदेष्टा गुरुः। [विद्वांसो हि ग्रावाणः। श० ३।९।३।१४। गृणाति उपदिशति इति ग्रावा गुरुः।] (वग्नुना) उपदेशात्मकेन शब्देन। [वम्नुरिति वाङ्नाम। निघं० १।११। वच परिभाषणे धातोः ‘वचेर्गश्च’। उ० ३।३३ इति सूत्रेण नुः प्रत्ययः, धातोश्च गान्तादेशः।] (ते मनः) तव चित्तम् (अर्वाचीनम्) धर्माभिमुखम् (सु कृणोतु) सम्यक् करोतु ॥२॥२
भावार्थः - जीवात्मा मातुर्गर्भं प्रविश्य जन्म गृहीत्वा मातापित्रोरङ्के क्रीडन् तयोः सकाशात् प्रारम्भिकशिक्षां प्राप्य कुमारः सन् यथाकालं गुरुकुलं गत्वा गुरुभ्यः शास्त्राध्ययनं कुर्वन् मनो धर्मे प्रवर्तयेत् ॥२॥
टिप्पणीः -
१. ऋ० १।८४।३। २. ऋग्भाष्ये दयानन्दर्षिमन्त्रमेतं सेनाध्यक्षो योद्धॄन् किमादिशेदिति विषये व्याचष्टे।