Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 1033
ऋषिः - त्रय ऋषयः
देवता - पवमानः सोमः
छन्दः - जगती
स्वरः - निषादः
काण्ड नाम -
4
अ꣢ग्रे꣣ सि꣡न्धू꣢नां꣣ प꣡व꣢मानो अर्ष꣣त्य꣡ग्रे꣢ वा꣣चो꣡ अ꣢ग्रि꣣यो꣡ गोषु꣢꣯ गच्छसि । अ꣢ग्रे꣣ वा꣡ज꣢स्य भजसे म꣣ह꣡द्धन꣢꣯ꣳ स्वायु꣣धः꣢ सो꣣तृ꣡भिः꣢ सोम सूयसे ॥१०३३॥
स्वर सहित पद पाठअ꣡ग्रे꣢꣯ । सि꣡न्धू꣢꣯नाम् । प꣡व꣢꣯मानः । अ꣡र्षसि । अ꣡ग्रे꣢꣯ । वा꣣चः꣢ । अ꣡ग्रियः꣢ । गो꣡षु꣢꣯ । ग꣣च्छसि । अ꣡ग्रे꣢꣯ । वा꣡ज꣢꣯स्य । भ꣣जसे । मह꣢त् । ध꣡न꣢꣯म् । स्वा꣣यु꣢धः । सु꣡ । आयुधः꣢ । सो꣣तृ꣡भिः꣢ । सो꣣म । सूयसे ॥१०३३॥
स्वर रहित मन्त्र
अग्रे सिन्धूनां पवमानो अर्षत्यग्रे वाचो अग्रियो गोषु गच्छसि । अग्रे वाजस्य भजसे महद्धनꣳ स्वायुधः सोतृभिः सोम सूयसे ॥१०३३॥
स्वर रहित पद पाठ
अग्रे । सिन्धूनाम् । पवमानः । अर्षसि । अग्रे । वाचः । अग्रियः । गोषु । गच्छसि । अग्रे । वाजस्य । भजसे । महत् । धनम् । स्वायुधः । सु । आयुधः । सोतृभिः । सोम । सूयसे ॥१०३३॥
सामवेद - मन्त्र संख्या : 1033
(कौथुम) उत्तरार्चिकः » प्रपाठक » 4; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 1; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 7; खण्ड » 1; सूक्त » 1; मन्त्र » 3
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 4; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 1; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 7; खण्ड » 1; सूक्त » 1; मन्त्र » 3
Acknowledgment
विषयः - अथ परमेश्वरस्य कर्तृत्वमाह।
पदार्थः -
हे सोम जगत्स्रष्टः परमात्मन् ! (पवमानः) पवित्रकर्ता त्वम् (सिन्धूनाम्) नदीनाम् (अग्रे) अग्रतः (अर्षसि) गच्छसि, त्वमेव ताः प्रवाहयसीत्यर्थः। (वाचः) मनुष्यैः प्रोच्यमानायाः वाण्याः (अग्रे) अग्रतः (गच्छसि) यासि, त्वत्प्रदत्तया शक्त्यैव जनाः व्यक्तां वाचमुच्चारयन्तीत्यर्थः। (अग्रियः) अग्रे भवः सन्। [‘अग्राद्यत्’ अ० ४।४।११६ इत्यनुवृत्तौ ‘घच्छौ च’। अ० ४।४।११७ इत्यनेन अग्रशब्दाद् भावार्थे घप्रत्ययः।] (गोषु) सूर्यकिरणेषु (गच्छसि) यासि, सूर्यकिरणान् त्वमेव प्रकाशयसि प्रेरयसि चेत्यर्थः। अपि च (वाजस्य) अन्नस्य संग्रामस्य वा (अग्रे) अग्रतः गच्छसि, अन्नाद्युत्पत्तिं संग्रामे विजयं चापि त्वमेव कारयसीत्यर्थः। त्वम् (महद्) धनम् विपुलम् ऐश्वर्यम् (भजसे) प्राप्नोषि। हे (सोम) परमात्मन् ! (स्वायुधः) सुशस्त्रास्त्रः सेनापतिरिव रक्षासमर्थः त्वम् (सोतृभिः) ध्यानयज्ञं कुर्वद्भिः उपासकैः (सूयसे) अभिषूय आनन्दं क्षार्यसे ॥३॥
भावार्थः - बाह्ये जगति शरीराभ्यन्तरे च संजायमानां सर्वां व्यवस्थां सर्वान्तर्यामी परमेश्वर एव कारयति ॥३॥
टिप्पणीः -
१. ऋ० ९।८६।१२ ऋषिः सिकता निवावरी। ‘अर्ष॒त्यग्रे॑’ ‘गच्छति’ ‘अग्रे॒ वाज॑स्य भजते महाध॒नं स्वा॑यु॒धः सो॒तृभिः॑ पूयते॒ वृषा॑’ इति पाठः।