Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 104
ऋषिः - विश्वमना वैयश्वः
देवता - अग्निः
छन्दः - उष्णिक्
स्वरः - ऋषभः
काण्ड नाम - आग्नेयं काण्डम्
4
न꣡ तस्य꣢꣯ मा꣣य꣡या꣢ च꣣ न꣢ रि꣣पु꣡री꣢शीत꣣ म꣡र्त्यः꣢ । यो꣢ अ꣣ग्न꣡ये꣢ द꣣दा꣡श꣢ ह꣣व्य꣡दा꣢तये ॥१०४॥
स्वर सहित पद पाठन꣢ । त꣡स्य꣢꣯ । मा꣣य꣡या꣢ । च꣣ । न꣢ । रि꣣पुः꣢ । ई꣣शीत । म꣡र्त्यः꣢꣯ । यः । अ꣣ग्न꣡ये꣢ । द꣣दा꣡श꣢ । ह꣣व्य꣡दा꣢तये । ह꣣व्य꣢ । दा꣣तये ॥१०४॥
स्वर रहित मन्त्र
न तस्य मायया च न रिपुरीशीत मर्त्यः । यो अग्नये ददाश हव्यदातये ॥१०४॥
स्वर रहित पद पाठ
न । तस्य । मायया । च । न । रिपुः । ईशीत । मर्त्यः । यः । अग्नये । ददाश । हव्यदातये । हव्य । दातये ॥१०४॥
सामवेद - मन्त्र संख्या : 104
(कौथुम) पूर्वार्चिकः » प्रपाठक » 2; अर्ध-प्रपाठक » 1; दशतिः » 1; मन्त्र » 8
(राणानीय) पूर्वार्चिकः » अध्याय » 1; खण्ड » 11;
Acknowledgment
(कौथुम) पूर्वार्चिकः » प्रपाठक » 2; अर्ध-प्रपाठक » 1; दशतिः » 1; मन्त्र » 8
(राणानीय) पूर्वार्चिकः » अध्याय » 1; खण्ड » 11;
Acknowledgment
विषयः - अथ परमात्माग्नये हविर्दानेन किं फलं भवतीत्युच्यते।
पदार्थः -
(मायया च न२) छलेन अपि (तस्य) परमात्मोपासकस्य (मर्त्यः) मानवः (रिपुः) शत्रुः (न ईशीत) न ईशितुं वशं नेतुं शक्नोति, (यः) परमात्मोपासकः (हव्यदातये) हव्यानां देयानां विजयपराक्रमादीनां दातिः दानं यस्मात् तस्मै। बहुव्रीहौ पूर्वपदप्रकृतिस्वरः। (अग्नये) जगन्नायकाय परमेश्वराय (ददाश) आत्मसमर्पणरूपं हविः प्रयच्छति। दाशृ दाने धातोर्लडर्थे लिट् ॥८॥
भावार्थः - विविधविघ्नबाधासंकटजालैराकीर्णेऽस्मिन् जगत्यनेके मर्त्याः शत्रवो विद्वेषविषदिग्धाः सन्तः सज्जनान् वञ्चयितुं वा लुण्ठितुं वा दग्धुं वा हन्तुं वा प्रयतन्ते। परं ये जनाः परमात्मने स्वात्मसमर्पणं कृत्वा तं शत्रुपराजयाय बलं याचन्ते तान् स पुरुषार्थे नियुज्य तथा विजयक्षमान् करोति यथा बलवन्तोऽपि बहुसंख्या अपि शत्रवो माययापि तान् वशं नेतुं न प्रभवन्ति ॥८॥
टिप्पणीः -
१. ऋ० ८।२३।१५, चन इति समस्तः, हव्यदातिभिः इति च पाठः। २. च न इति निपातद्वयं सह प्रयुक्तं सद् अप्यर्थे प्रायशो दृश्यते। ऋग्वेदे चन इत्येकपदतयैव पाठः पदकारेणापि तत्र पदद्वयतया न विभक्तम्। सामपदकारस्तु च न इति पृथक्त्वेन पठति, तत्रापि अप्यर्थ-ग्रहणे न कापि क्षतिः। अत्र—“मायया प्रज्ञया च। न शब्दः पूरणः—इति वि०। चनेति चार्थे—इति भ०। चनेति निपातसमुदायोऽप्यर्थे, मायया चन माययाऽपि—इति सा०।”