Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 1047
ऋषिः - हिरण्यस्तूप आङ्गिरसः
देवता - पवमानः सोमः
छन्दः - गायत्री
स्वरः - षड्जः
काण्ड नाम -
7
स꣡ना꣢ च सोम꣣ जे꣡षि꣢ च꣣ प꣡व꣢मान꣣ म꣢हि꣣ श्र꣡वः꣢ । अ꣡था꣢ नो꣣ व꣡स्य꣢सस्कृधि ॥१०४७॥
स्वर सहित पद पाठस꣡न꣢꣯ । च꣣ । सोम । जे꣡षि꣢꣯ । च꣣ । प꣡व꣢꣯मान । म꣡हि꣢꣯ । श्र꣡वः꣢꣯ । अ꣡थ꣢꣯ । नः꣣ । व꣡स्य꣢꣯सः । ꣣कृधि ॥१०४७॥
स्वर रहित मन्त्र
सना च सोम जेषि च पवमान महि श्रवः । अथा नो वस्यसस्कृधि ॥१०४७॥
स्वर रहित पद पाठ
सन । च । सोम । जेषि । च । पवमान । महि । श्रवः । अथ । नः । वस्यसः । कृधि ॥१०४७॥
सामवेद - मन्त्र संख्या : 1047
(कौथुम) उत्तरार्चिकः » प्रपाठक » 4; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 4; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 7; खण्ड » 2; सूक्त » 1; मन्त्र » 1
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 4; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 4; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 7; खण्ड » 2; सूक्त » 1; मन्त्र » 1
Acknowledgment
विषयः - अथ सोमनाम्ना जीवात्मानमुद्बोधयति।
पदार्थः -
हे (पवमान) गतिशील, कर्मशूर पवित्रताप्रद (सोम) ऐश्वर्यवन् शुभगुणकर्मप्रेरक जीवात्मन् ! त्वम् (महि श्रवः) महद् यशः, महत् शास्त्रश्रवणं वा (सन२) संभजस्व। [षण सम्भक्तौ, लोटि मध्यमैकवचने रूपम्। संहितायां ‘द्व्यचोऽतस्तिङः। अ० ६।३।१३५’ इति दीर्घः।] (जेषि च) संसारसमराङ्गणे विजयस्व च। अथ तदनन्तरं च (नः) अस्मानपि (वस्यसः) वसीयसः, अतिशयेन वसुमतः (कृधि) कुरु। [संहितायाम् ‘कः करत्करतिकृधिकृतेष्वनदितेः। अ० ८।३।५०’ इत्यनेन विसर्जनीयस्य सकारादेशः] ॥१॥
भावार्थः - यः स्वयं परमात्मोपासकः पुरुषार्थी गृहीतशास्त्रमर्यादो विजयशीलश्चास्ति स एवान्यान् प्रशस्तगुणकर्मवतः परमैश्वर्यशालिनः कर्त्तुं शक्नोति ॥१॥
टिप्पणीः -
१. ऋ० ९।४।१। २. सनाशब्दः सदावाची। सदा जेषि च शत्रून्—इति वि०। सायणमते तु ‘सना’ इति क्रियापदम् ‘द्व्यचोऽतस्तिङः’ (६।३।१३५) इति दीर्घः। विवरणकारमते तु ‘सना’ सदार्थमव्ययमिति ‘निपातस्य च’ (६।३।१३६) इति दीर्घः—इति सामश्रमी।