Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 1052
ऋषिः - हिरण्यस्तूप आङ्गिरसः देवता - पवमानः सोमः छन्दः - गायत्री स्वरः - षड्जः काण्ड नाम -
3

त꣢व꣣ क्र꣢त्वा꣣ त꣢वो꣣ति꣢भि꣣र्ज्यो꣡क्प꣢श्येम꣣ सू꣡र्य꣢म् । अ꣡था꣢ नो꣣ व꣡स्य꣢सस्कृधि ॥१०५२॥

स्वर सहित पद पाठ

त꣡व꣢꣯ । क्र꣡त्वा꣢꣯ । त꣡व꣢꣯ । ऊ꣣ति꣡भिः꣢ । ज्योक् । प꣣श्येम । सू꣡र्य꣢꣯म् । अ꣡थ꣢꣯ । नः꣣ । व꣡स्य꣢꣯सः । कृ꣣धि ॥१०५२॥


स्वर रहित मन्त्र

तव क्रत्वा तवोतिभिर्ज्योक्पश्येम सूर्यम् । अथा नो वस्यसस्कृधि ॥१०५२॥


स्वर रहित पद पाठ

तव । क्रत्वा । तव । ऊतिभिः । ज्योक् । पश्येम । सूर्यम् । अथ । नः । वस्यसः । कृधि ॥१०५२॥

सामवेद - मन्त्र संख्या : 1052
(कौथुम) उत्तरार्चिकः » प्रपाठक » 4; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 4; मन्त्र » 6
(राणानीय) उत्तरार्चिकः » अध्याय » 7; खण्ड » 2; सूक्त » 1; मन्त्र » 6
Acknowledgment

पदार्थः -
हे पवमान पवित्रताकारक सोम शुभगुणकर्मप्रेरक परमात्मन् राजन् वा ! (तव क्रत्वा) त्वदीयेन कर्मणा प्रज्ञानेन वा (तव ऊतिभिः) तव रक्षाभिश्च, वयम् (ज्योक्) चिरकालं यावत् (सूर्यम्) आदित्यम् (पश्येम) अवलोकयेम, दीर्घजीविनो भवेमेत्यर्थः। (अथ) अपि च (नः) अस्मान् (वस्यसः) अतिशयेन वसुमतः (कृधि) कुरु ॥६॥

भावार्थः - परमात्मनो नृपतेश्च रक्षां प्रेरणां च प्राप्य विज्ञानवन्तः कर्मवन्तश्च भूत्वा प्रजाजनाः पुरुषायुषजीविनो जायन्ते ॥६॥

इस भाष्य को एडिट करें
Top