Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 1055
ऋषिः - हिरण्यस्तूप आङ्गिरसः देवता - पवमानः सोमः छन्दः - गायत्री स्वरः - षड्जः काण्ड नाम -
4

त्वां꣢ य꣣ज्ञै꣡र꣢वीवृध꣣न्प꣡व꣢मान꣣ वि꣡ध꣢र्मणि । अ꣡था꣢ नो꣣ व꣡स्य꣢सस्कृधि ॥१०५५॥

स्वर सहित पद पाठ

त्वा꣢म् । य꣣ज्ञैः꣢ । अ꣣वीवृधन् । प꣡व꣢꣯मान । वि꣡ध꣢꣯र्मणि । वि । ध꣣र्मणि । अ꣡थ꣢꣯ । नः । व꣡स्य꣢꣯सः । कृ꣣धि ॥१०५५॥


स्वर रहित मन्त्र

त्वां यज्ञैरवीवृधन्पवमान विधर्मणि । अथा नो वस्यसस्कृधि ॥१०५५॥


स्वर रहित पद पाठ

त्वाम् । यज्ञैः । अवीवृधन् । पवमान । विधर्मणि । वि । धर्मणि । अथ । नः । वस्यसः । कृधि ॥१०५५॥

सामवेद - मन्त्र संख्या : 1055
(कौथुम) उत्तरार्चिकः » प्रपाठक » 4; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 4; मन्त्र » 9
(राणानीय) उत्तरार्चिकः » अध्याय » 7; खण्ड » 2; सूक्त » 1; मन्त्र » 9
Acknowledgment

पदार्थः -
हे (पवमान) जनमानसाय पवित्रतादायक क्रियाशील परमात्मन् राजन् वा ! (विधर्मणि) विशेषधर्मयुक्ते अन्तरात्मनि राष्ट्रे वा (त्वाम्) परमात्मानं राजानं वा (यज्ञैः) उपासनायज्ञैः राष्ट्रयज्ञैर्वा, प्रजाः (अवीवृधन्) वर्धयन्ति। (अथ) अतः (नः) अस्मान् (वस्यसः) अतिशयेन वसुमतः (कृधि) कुरु ॥९॥

भावार्थः - परमेश्वरमुपासनयाऽन्तरात्मनि संवर्ध्य राजानं च राष्ट्रसेवारूपैर्यज्ञै राष्ट्रे संवर्ध्य ताभ्यां प्राप्तैर्यशोभिर्वसुभिश्च जना यशस्विनो वसुमन्तश्च जायन्ताम् ॥९॥

इस भाष्य को एडिट करें
Top