Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 1056
ऋषिः - हिरण्यस्तूप आङ्गिरसः देवता - पवमानः सोमः छन्दः - गायत्री स्वरः - षड्जः काण्ड नाम -
7

र꣣यिं꣡ न꣢श्चि꣣त्र꣢म꣣श्वि꣢न꣣मि꣡न्दो꣢ वि꣣श्वा꣢यु꣣मा꣡ भ꣢र । अ꣡था꣢ नो꣣ व꣡स्य꣢सस्कृधि ॥१०५६॥

स्वर सहित पद पाठ

र꣣यि꣢म् । नः꣣ । चित्र꣢म् । अ꣣श्वि꣡न꣢म् । इ꣡न्दो꣢꣯ । वि꣣श्वा꣡यु꣢म् । वि꣣श्व꣢ । आ꣣युम् । आ꣢ । भ꣣र । अ꣡थ꣢꣯ । नः꣣ । व꣡स्य꣢꣯सः । कृ꣣धि ॥१०५६॥


स्वर रहित मन्त्र

रयिं नश्चित्रमश्विनमिन्दो विश्वायुमा भर । अथा नो वस्यसस्कृधि ॥१०५६॥


स्वर रहित पद पाठ

रयिम् । नः । चित्रम् । अश्विनम् । इन्दो । विश्वायुम् । विश्व । आयुम् । आ । भर । अथ । नः । वस्यसः । कृधि ॥१०५६॥

सामवेद - मन्त्र संख्या : 1056
(कौथुम) उत्तरार्चिकः » प्रपाठक » 4; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 4; मन्त्र » 10
(राणानीय) उत्तरार्चिकः » अध्याय » 7; खण्ड » 2; सूक्त » 1; मन्त्र » 10
Acknowledgment

पदार्थः -
हे (इन्दो) चन्द्रवदाह्लादक परमैश्वर्यशालिन् जगदीश्वर नृपते वा ! त्वम् (नः) अस्मभ्यम् (चित्रम्) अद्भुतम्, चित्रविचित्रम्, (अश्विनम्) आशुगामिनम्, (विश्वायुम्) पूर्णायुष्करम् यद्वा विश्वजनहितकरम्। [आयुष् शब्दवदुकारान्तोऽप्यायुर्वाचक आयुशब्दोऽस्ति। ‘आयु’ इति मनुष्यनामसु च पठितम् निघं० २।३।] (रयिम्) धनम् (आ भर) आहर। (अथ) एवम् (नः) अस्मान् (वस्यसः) अतिशयेन वसुमतः (कृधि) कुरु ॥१०॥

भावार्थः - तदेव धनं वस्तुतो धनं भवति येन पूर्णमायुर्विश्वेषां मनुष्याणां हितं च साध्यते, यत्तु विलासे संलिप्यायुःक्षयकरं दीनजनविद्वेषकरं च तद्धनं धनं च किन्तु मृत्युरेव ॥१०॥

इस भाष्य को एडिट करें
Top