Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 1057
ऋषिः - अवत्सारः काश्यपः
देवता - पवमानः सोमः
छन्दः - गायत्री
स्वरः - षड्जः
काण्ड नाम -
6
त꣢र꣣त्स꣢ म꣣न्दी꣡ धा꣢वति꣣ धा꣡रा꣢ सु꣣त꣡स्यान्ध꣢꣯सः । त꣢र꣣त्स꣢ म꣣न्दी꣡ धा꣢वति ॥१०५७॥
स्वर सहित पद पाठत꣡र꣢꣯त् । सः । म꣣न्दी꣢ । धा꣣वति । धा꣡रा꣢꣯ । सु꣣त꣡स्य꣢ । अ꣡न्ध꣢꣯सः । त꣡र꣢꣯त् । सः । म꣣न्दी꣢ । धा꣣वति ॥१०५७॥
स्वर रहित मन्त्र
तरत्स मन्दी धावति धारा सुतस्यान्धसः । तरत्स मन्दी धावति ॥१०५७॥
स्वर रहित पद पाठ
तरत् । सः । मन्दी । धावति । धारा । सुतस्य । अन्धसः । तरत् । सः । मन्दी । धावति ॥१०५७॥
सामवेद - मन्त्र संख्या : 1057
(कौथुम) उत्तरार्चिकः » प्रपाठक » 4; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 5; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 7; खण्ड » 2; सूक्त » 2; मन्त्र » 1
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 4; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 5; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 7; खण्ड » 2; सूक्त » 2; मन्त्र » 1
Acknowledgment
विषयः - तत्र प्रथमा ऋक् पूर्वार्चिके ५०० क्रमाङ्के ऐहिकपारलौकिकोत्कर्षविषये व्याख्याता। अत्र मोक्षप्राप्तिविषयो वर्ण्यते।
पदार्थः -
(सः) असौ (मन्दी) स्तोता। [मन्दी मन्दतेः स्तुतिकर्मणः। निरु० ४।२३।] (सुतस्य) परमेश्वरस्य सकाशात् परिसुतस्य (अन्धसः) ब्रह्मानन्दरूपस्य सोमरसस्य (धारा) धारया (धावति) अन्तरात्मानं प्रक्षालयति। [धावु गतिशुद्ध्योः, भ्वादिः।] (तरत्) तरति च दुःखसागरम्। सत्यम् (मन्दीः सः) मुदितः असौ। [मदि स्तुतिमोदमदस्वप्नकान्तिगतिषु, भ्वादिः।] (धावति) लक्ष्यं प्रति वेगेन गच्छति, (तरत्) तरति च ब्रह्मानन्दसागरे। [यास्काचार्येण मन्त्रोऽयम् निरु० १३।६ इत्यत्र व्याख्यातः।] ॥१॥ अत्र प्रथमचरणस्य तृतीयचरणे आवृत्तौ पादावृत्तियमकालङ्कारः ॥१॥
भावार्थः - परमेश्वरस्य ध्याने ये मग्ना जायन्ते ते ततः स्रवन्त्याऽनन्दस्रोतस्विन्या धौता निर्मलात्मानः सन्तस्त्रिविधेभ्योऽपि दुःखेभ्यो निर्मुच्य मुक्ता जायन्ते ॥१॥
टिप्पणीः -
१. ऋ० ९।५८।१, साम० ५००।