Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 1060
ऋषिः - अवत्सारः काश्यपः देवता - पवमानः सोमः छन्दः - गायत्री स्वरः - षड्जः काण्ड नाम -
4

आ꣡ ययो꣢꣯स्त्रि꣣ꣳश꣢तं꣣ त꣡ना꣢ स꣣ह꣡स्रा꣢णि च꣣ द꣡द्म꣢हे । त꣢र꣣त्स꣢ म꣣न्दी꣡ धा꣢वति ॥१०६०॥

स्वर सहित पद पाठ

आ꣢ । य꣡योः꣢꣯ । त्रि꣣ꣳश꣡त꣢म् । त꣡ना꣢꣯ । स꣣ह꣡स्रा꣢णि । च꣣ । द꣡द्म꣢꣯हे । त꣡र꣢꣯त् । सः । म꣣न्दी꣢ । धा꣣वति ॥१०६०॥


स्वर रहित मन्त्र

आ ययोस्त्रिꣳशतं तना सहस्राणि च दद्महे । तरत्स मन्दी धावति ॥१०६०॥


स्वर रहित पद पाठ

आ । ययोः । त्रिꣳशतम् । तना । सहस्राणि । च । दद्महे । तरत् । सः । मन्दी । धावति ॥१०६०॥

सामवेद - मन्त्र संख्या : 1060
(कौथुम) उत्तरार्चिकः » प्रपाठक » 4; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 5; मन्त्र » 4
(राणानीय) उत्तरार्चिकः » अध्याय » 7; खण्ड » 2; सूक्त » 2; मन्त्र » 4
Acknowledgment

पदार्थः -
(ययोः) ध्वस्रयोः दोषध्वंसकयोः पुरुषन्त्योः बहुदानयोः आत्ममनसोः (त्रिंशतम्) त्रिंशत्संख्याकानि (सहस्राणि) बहुसहस्राणि (च तना) विस्तृतानि ऐश्वर्याणि। [तना इति धननामसु पठितम्। निघं० २।१०।] वयम् (आदद्महे) गृह्णीमहे, तैः ऐश्वर्यैः (सः मन्दी) असौ स्तोता (धावति) स्वात्मानं प्रक्षालयति, (तरत्) तरति च शोकम्, मुक्तो भवतीत्यर्थः ॥ आत्ममनसोः त्रिंशद् ऐश्वर्याणि तावदेवम्—८ योगाङ्गानि, २ अभ्यासवैराग्ये, १. प्रणवजपः, १ वशीकारः, १ अध्यात्मप्रसादः, ३ तपः- स्वाध्यायेश्वरप्रणिधानानि, ४ वृत्तयः मैत्रीकरुणामुदितोपेक्षाः, ८ अणिमाद्याः सिद्धयः, १ विवेकख्यातिः, १ कैवल्यम्। अनेकसहस्राण्यैश्वर्याणि तु एतेषामेव महिमानः। आत्ममनसोः शोधनेन यथोचितोपयोगेन चागणि—तान्यैश्वर्याणि लब्धुं शक्नोत्युपासक इति तात्पर्यम् ॥४॥

भावार्थः - केवलं भौतिकं धनमेव धनं नास्ति, प्रत्युत तदपेक्षया सुमहत्तरं धनमाध्यात्मिकं धनं विद्यते, यस्य प्राप्त्यै मनुष्यैर्यत्नो विधेयः ॥४॥

इस भाष्य को एडिट करें
Top