Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 1061
ऋषिः - जमदग्निर्भार्गवः
देवता - पवमानः सोमः
छन्दः - गायत्री
स्वरः - षड्जः
काण्ड नाम -
4
ए꣣ते꣡ सोमा꣢꣯ असृक्षत गृणा꣣नाः꣡ शव꣢꣯से म꣣हे꣢ । म꣣दि꣡न्त꣢मस्य꣣ धा꣡र꣢या ॥१०६१॥
स्वर सहित पद पाठए꣣ते꣢ । सो꣡माः꣢꣯ । अ꣢सृक्षत । गृणानाः꣢ । श꣡व꣢꣯से । म꣣हे꣢ । म꣣दि꣡न्त꣢मस्य । धा꣡र꣢꣯या ॥१०६१॥
स्वर रहित मन्त्र
एते सोमा असृक्षत गृणानाः शवसे महे । मदिन्तमस्य धारया ॥१०६१॥
स्वर रहित पद पाठ
एते । सोमाः । असृक्षत । गृणानाः । शवसे । महे । मदिन्तमस्य । धारया ॥१०६१॥
सामवेद - मन्त्र संख्या : 1061
(कौथुम) उत्तरार्चिकः » प्रपाठक » 4; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 6; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 7; खण्ड » 2; सूक्त » 3; मन्त्र » 1
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 4; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 6; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 7; खण्ड » 2; सूक्त » 3; मन्त्र » 1
Acknowledgment
विषयः - तत्रादौ गुरवो वर्ण्यन्ते।
पदार्थः -
(एते) इमे (गृणानाः) शास्त्राण्युपदिशन्तः (सोमाः) विद्यारसागाराः गुरवः (महे शवसे) महते बलाय (मदिन्तमस्य) आनन्दयितृतमस्य ज्ञानस्य (धारया) प्रवाहसन्तत्या (असृक्षत) विद्यादानं कुर्वन्ति ॥१॥
भावार्थः - योग्येभ्यो गुरुभ्यो गृहीता विद्या शिष्याणां कीर्तिकरी जायते ॥१॥
टिप्पणीः -
१. ऋ० ९।६२।२२, ‘शवसे’ इत्यत्र ‘श्रव॑से’।