Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 1066
ऋषिः - कुत्स आङ्गिरसः
देवता - अग्निः
छन्दः - जगती
स्वरः - निषादः
काण्ड नाम -
6
श꣣के꣡म꣢ त्वा स꣣मि꣡ध꣢ꣳ सा꣣ध꣢या꣣ धि꣢य꣣स्त्वे꣢ दे꣣वा꣢ ह꣣वि꣡र꣢द꣣न्त्या꣡हु꣢तम् । त्व꣡मा꣢दि꣣त्या꣡ꣳआ व꣢꣯ह꣣ तान्ह्यु꣢३꣱श्म꣡स्यग्ने꣢꣯ स꣣ख्ये꣡ मा रि꣢꣯षामा व꣣यं꣡ तव꣢꣯ ॥१०६६॥
स्वर सहित पद पाठश꣣के꣡म꣢ । त्वा꣣ । समि꣡ध꣢म् । स꣣म् । इ꣡ध꣢꣯म् । सा꣣ध꣡य꣢ । धि꣡यः꣢꣯ । त्वे꣡इति꣢ । दे꣣वाः꣢ । ह꣣विः꣢ । अ꣣दन्ति । आ꣡हु꣢꣯तम् । आ । हु꣣तम् । त्व꣢म् । आ꣣दित्या꣢न् । आ꣣ । दित्या꣢न् । आ । व꣣ह । ता꣢न् । हि । उ꣣श्म꣡सि꣢ । अ꣡ग्ने꣢꣯ । स꣣ख्ये꣢ । स꣣ । ख्ये꣢ । मा । रि꣣षाम । वय꣢म् । त꣡व꣢꣯ ॥१०६६॥
स्वर रहित मन्त्र
शकेम त्वा समिधꣳ साधया धियस्त्वे देवा हविरदन्त्याहुतम् । त्वमादित्याꣳआ वह तान्ह्यु३श्मस्यग्ने सख्ये मा रिषामा वयं तव ॥१०६६॥
स्वर रहित पद पाठ
शकेम । त्वा । समिधम् । सम् । इधम् । साधय । धियः । त्वेइति । देवाः । हविः । अदन्ति । आहुतम् । आ । हुतम् । त्वम् । आदित्यान् । आ । दित्यान् । आ । वह । तान् । हि । उश्मसि । अग्ने । सख्ये । स । ख्ये । मा । रिषाम । वयम् । तव ॥१०६६॥
सामवेद - मन्त्र संख्या : 1066
(कौथुम) उत्तरार्चिकः » प्रपाठक » 4; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 7; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 7; खण्ड » 2; सूक्त » 4; मन्त्र » 3
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 4; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 7; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 7; खण्ड » 2; सूक्त » 4; मन्त्र » 3
Acknowledgment
विषयः - अथ पुनरप्याचार्यशिष्ययोरेव विषयमाह।
पदार्थः -
हे आचार्यप्रवर ! वयं शिष्याः (त्वा) त्वाम् (समिधं शकेम) ज्ञानदानाय समिन्धितुं शक्नुयाम। [सं पूर्वाद् इन्धी दीप्तौ धातोः ‘शकि णमुल्कमुलौ। अ० ३।४।१२’ इत्यनेन तुमर्थे कमुल् प्रत्ययः। शक्लृ शक्तौ स्वादिः, विकरणव्यत्ययेन शप्।] त्वम् (धियः) अस्माकं बुद्धीः (साधय) परिष्कुरु। (त्वे) त्वया। [युष्मच्छब्दात् तृतीयैकवचने ‘सुपां सुलुक्०’ अ० ७।१।३९ इत्यनेन विभक्तेः शे आदेशः।] (आहुतम्) प्रदत्तम् (हविः) आदातुं योग्यं ज्ञानम् (देवाः) प्रमुदिताः शिष्याः (अदन्ति) गृह्णन्ति। (त्वम्) आदित्यान् आदित्यब्रह्मचारिणः (आवह) समाजं प्रापय, (तान् हि) तान् खलु आदित्यान् आदित्यब्रह्मचारिणः वयम् (उश्मसि) कामयामहे। [वश कान्तौ, अदादिः। ‘इदन्तो मसि। अ० ७।१।४६।’] हे (अग्ने) विद्वन्, शिक्षणकलावित् आचार्य ! (वयम्) शिष्याः (तव सख्ये) त्वदीये साहचर्ये (मा रिषाम) कदापि दोषयुक्ता क्षतिग्रस्ता वा न भवेम ॥३॥२
भावार्थः - शिष्याणां समर्पणरूपया समिधा यदाऽऽचार्यः समिध्यते तदैव स शिष्यैः सहान्तरङ्गतां संस्थाप्य स्वार्जितां सर्वामपि विद्यां तेभ्यः प्रयच्छति तेषां चारित्रिकं विकासं चाप्यातनोति ॥३॥ अस्मिन् खण्डे जीवात्मोद्बोधनपुरस्सरं परमात्मजीवात्मब्रह्मानन्दमोक्षप्राप्तिवर्णनाद् आचार्यशिष्यविषयवर्णनात्प्रसङ्गतो नृपतिविषयवर्णनाच्चैतत्खण्डस्य पूर्वखण्डेन संगतिर्वेदितव्या ॥
टिप्पणीः -
१. ऋ० १।९४।३। २. ऋग्भाष्ये दयानन्दर्षिर्मन्त्रमिमं राजप्रजाविषये व्याख्यातवान्।