Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 1074
ऋषिः - श्यावाश्व आत्रेयः देवता - इन्द्राग्नी छन्दः - गायत्री स्वरः - षड्जः काण्ड नाम -
6

तो꣣शा꣡सा꣢ रथ꣣या꣡वा꣢ना वृत्र꣣ह꣡णाप꣢꣯राजिता । इ꣡न्द्रा꣢ग्नी꣣ त꣡स्य꣢ बोधतम् ॥१०७४॥

स्वर सहित पद पाठ

तोशा꣡सा꣢ । र꣣थया꣡वा꣢ना । र꣣थ । या꣡वा꣢꣯ना । वृ꣣त्रह꣡णा꣢ । वृ꣣त्र । ह꣡ना꣢꣯ । अ꣡प꣢꣯राजिता । अ । प꣣राजिता । इ꣡न्द्रा꣢꣯ग्नी । इ꣡न्द्र꣢꣯ । अ꣣ग्नीइ꣡ति꣢ । त꣡स्य꣢꣯ । बो꣣धतम् ॥१०७४॥


स्वर रहित मन्त्र

तोशासा रथयावाना वृत्रहणापराजिता । इन्द्राग्नी तस्य बोधतम् ॥१०७४॥


स्वर रहित पद पाठ

तोशासा । रथयावाना । रथ । यावाना । वृत्रहणा । वृत्र । हना । अपराजिता । अ । पराजिता । इन्द्राग्नी । इन्द्र । अग्नीइति । तस्य । बोधतम् ॥१०७४॥

सामवेद - मन्त्र संख्या : 1074
(कौथुम) उत्तरार्चिकः » प्रपाठक » 4; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 10; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 7; खण्ड » 3; सूक्त » 3; मन्त्र » 2
Acknowledgment

पदार्थः -
हे (इन्द्राग्नी) जीवात्मप्राणौ नृपतिसेनापती वा ! (तोशासा२) तोशसौ सन्तुष्टिकरौ। [तुष प्रीतौ, बाहुलकादौणादिकः असच् प्रत्ययः। मध्यस्थस्य अत्त्वस्य दीर्घश्छान्दसः। वर्णव्यत्ययेन षकारस्य तालव्यादेशः।] (रथयावाना) रथयावानौ रथेन देहरथेन विमानादियानेन वा गन्तारौ। [रथोपपदात् या प्रापणे धातोः छन्दसीवनिपौ च वक्तव्यौ। वा०, अ० ५।२।१२२ इत्यनेन वनिप् प्रत्ययः।] (वृत्रहणा) शत्रुविघ्नपापादीनां हन्तारौ, (अपराजिता) अपराजितौ च युवाम् (तस्य) तत्तत्कर्मणः (बोधतम्) कर्तुं कारयितुं च जानीतम् ॥२॥

भावार्थः - जीवात्मप्राणौ नृपतिसेनापती च नेतारौ वृत्वा वैयक्तिकी सामाजिकी राष्ट्रिया चोन्नतिः सर्वैः साधनीया ॥२॥

इस भाष्य को एडिट करें
Top