Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 109
ऋषिः - सौभरि: काण्व: देवता - अग्निः छन्दः - उष्णिक् स्वरः - ऋषभः काण्ड नाम - आग्नेयं काण्डम्
10

तं꣡ गू꣢र्धया꣣꣬ स्व꣢꣯र्णरं दे꣣वा꣡सो꣢ दे꣣व꣡म꣢र꣣तिं꣡ द꣢धन्विरे । दे꣣वत्रा꣢ ह꣣व्य꣡मू꣢हिषे ॥१०९॥

स्वर सहित पद पाठ

त꣢म् । गू꣣र्धय । स्व꣢꣯र्णरम् । स्वः꣢꣯ । न꣣रम् । देवा꣡सः꣢ । दे꣣व꣢म् । अ꣣रति꣢म् । द꣣धन्विरे । देवत्रा꣢ । ह꣣व्य꣢म् । ऊ꣣हिषे ॥१०९॥


स्वर रहित मन्त्र

तं गूर्धया स्वर्णरं देवासो देवमरतिं दधन्विरे । देवत्रा हव्यमूहिषे ॥१०९॥


स्वर रहित पद पाठ

तम् । गूर्धय । स्वर्णरम् । स्वः । नरम् । देवासः । देवम् । अरतिम् । दधन्विरे । देवत्रा । हव्यम् । ऊहिषे ॥१०९॥

सामवेद - मन्त्र संख्या : 109
(कौथुम) पूर्वार्चिकः » प्रपाठक » 2; अर्ध-प्रपाठक » 1; दशतिः » 2; मन्त्र » 3
(राणानीय) पूर्वार्चिकः » अध्याय » 1; खण्ड » 12;
Acknowledgment

पदार्थः -
हे मानव ! त्वम् (तम्) प्रसिद्धम् (स्वर्णरम्२) मोक्षानन्दस्य प्रापयितारम् परमात्माग्निम्। स्वः मोक्षादिसुखं नृणाति प्रापयतीति स्वर्णरः तम्। स्वः इति सुखनाम। नॄ नये क्र्यादिः। (गूर्धय) अर्च। गूर्धयतिः अर्चतिकर्मा। निघं० ३।१४। संहितायाम् अन्येषामपि दृश्यते।’ अ० ६।३।१३७ इति दीर्घः। यम् (देवम्) तेजसा दीप्तं दीपयितारं च (अरतिम्३) सर्वान्तर्यामिनम्, पुरुषार्थे प्रेरकम्, पापादिसंहारकम् परमात्माग्निम्। ऋच्छति व्याप्नोति सर्वत्र, अर्पयति प्रेरयति पुरुषार्थे, ऋणोति हिनस्ति पापादिकं वा यः सः अरतिः। ऋ गतिप्रापणयोः इति, ऋ हिंसायाम् इति वा धातोः ‘बहिवस्यर्तिभ्यश्चित्।’ उ० ४।६० इत्यनेन अतिः प्रत्ययः। (देवासः) देवाः विद्वांसः (दधन्विरे) स्वान्तःकरणे धारयन्ति। डुधाञ् धारणपोषणयोः धातोर्द्विविकरणत्वे छान्दसं रूपमिदम्। यद्वा धन्वतिः गतिकर्मा। निघं० २।१४। तस्य लडर्थे लिटि रूपम्। व्यत्ययेनात्मनेपदम्। अथ परमात्माग्निः सम्बोध्यते—हे परमात्माग्ने ! त्वम् (देवत्रा) देवेषु विद्वत्सु। ‘देवमनुष्यपुरुषपुरुमर्त्येभ्यो द्वितीयासप्तम्योर्बहुलम्।’ अ० ५।४।५६ इति सप्तम्यर्थे त्रा प्रत्ययः। (हव्यम्) दातव्यं बलम् (ऊहिषे) वहसि। अत्र वह प्रापणे धातोः कालसामान्ये लिट्, मध्यमैकवचने रूपम्। तिङ्स्वरः ॥३॥

भावार्थः - मनीषिणो जना यं देवाधिदेवं जगत्स्रष्टारं जगदीश्वरमाराध्य धर्मार्थकाममोक्षादिसुखं प्राप्नुवन्ति, स सर्वैरेव जनैः कुतो नोपासनीयः ॥३॥

इस भाष्य को एडिट करें
Top