Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 110
ऋषिः - प्रयोगो भार्गवः सौभरि: काण्वो वा
देवता - अग्निः
छन्दः - उष्णिक्
स्वरः - ऋषभः
काण्ड नाम - आग्नेयं काण्डम्
4
मा꣡ नो꣢ हृणीथा꣣ अ꣡ति꣢थिं꣣ व꣡सु꣢र꣣ग्निः꣡ पु꣢रुप्रश꣣स्त꣢ ए꣣षः꣢ । यः꣢ सु꣣हो꣡ता꣢ स्वध्व꣣रः꣢ ॥११०॥
स्वर सहित पद पाठमा꣢ । नः꣣ । हृणीथाः । अ꣡ति꣢꣯थिम् । व꣡सुः꣢ । अ꣣ग्निः꣢ । पु꣣रुप्रशस्तः꣢ । पु꣣रु । प्रशस्तः꣢ । ए꣣षः꣢ । यः । सु꣣हो꣡ता꣢ । सु꣣ । हो꣡ता꣢꣯ । स्व꣣ध्वरः꣢ । सु꣣ । अध्वरः꣢ ॥११०॥
स्वर रहित मन्त्र
मा नो हृणीथा अतिथिं वसुरग्निः पुरुप्रशस्त एषः । यः सुहोता स्वध्वरः ॥११०॥
स्वर रहित पद पाठ
मा । नः । हृणीथाः । अतिथिम् । वसुः । अग्निः । पुरुप्रशस्तः । पुरु । प्रशस्तः । एषः । यः । सुहोता । सु । होता । स्वध्वरः । सु । अध्वरः ॥११०॥
सामवेद - मन्त्र संख्या : 110
(कौथुम) पूर्वार्चिकः » प्रपाठक » 2; अर्ध-प्रपाठक » 1; दशतिः » 2; मन्त्र » 4
(राणानीय) पूर्वार्चिकः » अध्याय » 1; खण्ड » 12;
Acknowledgment
(कौथुम) पूर्वार्चिकः » प्रपाठक » 2; अर्ध-प्रपाठक » 1; दशतिः » 2; मन्त्र » 4
(राणानीय) पूर्वार्चिकः » अध्याय » 1; खण्ड » 12;
Acknowledgment
विषयः - अथ परमात्मपूजाऽतिथिसत्कारविषयमाह।
पदार्थः -
प्रथमः—परमात्मपरः। हे मातः ! त्वम् (नः) अस्माकम् (अतिथिम्) अतिथिभूतम् अतिथिवत् पूज्यम् अग्निं परमात्मानम् (मा हृणीथाः) अवज्ञानेन वेदविरुद्धाचरणेन वा न कोपयस्व। हृणीयते क्रुध्यतिकर्मा। निघं० २।१२। हृणीङ् रोषणे लज्जायां च। (एषः२) अयम् (वसुः) निवासकः (अग्निः) तेजस्वी अग्रनायकः परमात्मा (पुरुप्रशस्तः) बहुभिः कीर्तितः विद्यते इति शेषः। पुरु इति बहुनाम। निघं० ३।१। शंसु स्तुतौ। (यः) परमात्मा (सुहोता) शोभनः दाता, (स्वध्वरः) सुष्ठुतयाऽस्माकं जीवनयज्ञस्य सञ्चालकश्च वर्तते। शोभनः अध्वरः जीवनयज्ञः यस्मात् स स्वध्वरः। अथ द्वितीयः—अतिथिपरः। हे गृहिणि ! त्वम् (नः) अस्माकम् (अतिथिम्) अभ्यागतम् आचार्योपदेशकसंन्यासिप्रभृतिम् (मा हृणीथाः) यथायोग्यसत्काराकरणेन रुष्टं मा कार्षीः। (एषः) अयम् (अग्निः) धर्मविद्यादिप्रकाशेन प्रकाशितः अतिथिः (वसुः) गृहस्थानां निवासकः, (पुरुप्रशस्तः) पुरुभिः बहुभिः अतिथिपूजां यज्ञं घोषयद्भिः (वेदादिशास्त्रैः३) प्रशस्तः कृतप्रशंसश्च वर्तते, (यः) विद्वान् अतिथिः (सुहोता) सदुपदेष्टा, (स्वध्वरः) श्रेष्ठः अध्वरः विद्याप्रचाररूपो यज्ञो यस्य तादृशश्च वर्तते ॥४॥ अत्र श्लेषालङ्कारः ॥४॥
भावार्थः - यथा सुपूजितः परमेश्वरः पूजकाय सद्गुणादिसम्पत्तिं प्रदाय तत्कल्याणं करोति, तथैव सुसत्कृतोऽतिथिराशीर्वाद-सदुपदेशादि-प्रदानेन गृहस्थमुपकरोति। अतः परमेश्वरोपासनेऽतिथिसत्कारे च कदापि प्रमादो न विधेयः ॥४॥
टिप्पणीः -
१. ऋ० ८।१०३।१२, ऋषिः सोभरिः काण्वः। प्रथमे पादे मा नो हृणीतामतिथिर् इति पाठः। २. एषः, एषृ गतौ इत्यस्यैतद् रूपम्, गन्ता—इति वि०। भरतसायणयोर्मते तु एषः इति एतदः एव रूपम्। ३. अतिथियज्ञविषये द्रष्टव्यम्। अथ० ९।६, १५।१०-१३।