Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 111
ऋषिः - सौभरि: काण्व: देवता - अग्निः छन्दः - उष्णिक् स्वरः - ऋषभः काण्ड नाम - आग्नेयं काण्डम्
6

भ꣣द्रो꣡ नो꣢ अ꣣ग्नि꣡राहु꣢꣯तो भ꣣द्रा꣢ रा꣣तिः꣡ सु꣢भग भ꣣द्रो꣡ अ꣢ध्व꣣रः꣢ । भ꣣द्रा꣢ उ꣣त꣡ प्रश꣢꣯स्तयः ॥१११॥

स्वर सहित पद पाठ

भ꣣द्रः꣢ । नः꣣ । अग्निः꣢ । आ꣡हु꣢꣯तः । आ । हु꣣तः । भद्रा꣢ । रा꣣तिः꣢ । सु꣢भग । सु । भग । भद्रः꣢ । अ꣣ध्वरः꣢ । भ꣣द्राः꣢ । उ꣣त꣢ । प्र꣡श꣢꣯स्तयः । प्र । श꣣स्तयः ॥१११॥


स्वर रहित मन्त्र

भद्रो नो अग्निराहुतो भद्रा रातिः सुभग भद्रो अध्वरः । भद्रा उत प्रशस्तयः ॥१११॥


स्वर रहित पद पाठ

भद्रः । नः । अग्निः । आहुतः । आ । हुतः । भद्रा । रातिः । सुभग । सु । भग । भद्रः । अध्वरः । भद्राः । उत । प्रशस्तयः । प्र । शस्तयः ॥१११॥

सामवेद - मन्त्र संख्या : 111
(कौथुम) पूर्वार्चिकः » प्रपाठक » 2; अर्ध-प्रपाठक » 1; दशतिः » 2; मन्त्र » 5
(राणानीय) पूर्वार्चिकः » अध्याय » 1; खण्ड » 12;
Acknowledgment

पदार्थः -
(आहुतः अग्निः) प्राप्तसुगन्धिमिष्टपुष्ट्यारोग्यवर्द्धकहव्याहुतिः यज्ञाग्निः, सत्कृतः अतिथिः, प्राप्तसमर्पणाहुतिः परमात्मा च (नः) अस्मभ्यम् (भद्रः) भद्रप्रदः अस्तु। (रातिः) अस्माभिः कृता दत्तिः (भद्रा) श्रेष्ठा भद्रप्रदा वा अस्तु। हे (सुभग) सौभाग्यवन् मदीय अन्तरात्मन् ! त्वया कृतः (अध्वरः) यज्ञः (भद्रः) श्रेष्ठः भद्रप्रदो वा अस्तु। (उत) अपि च (प्रशस्तयः) त्वदुपार्जिताः कीर्तयः (भद्राः) श्रेष्ठाः भद्रप्रदा वा सन्तु ॥५॥२ अत्रार्थश्लेषालङ्कारः ॥५॥

भावार्थः - सर्वैर्मनुष्यैरग्निहोत्रादिरूपोऽतिथिसत्कारूपः परमात्मपूजनरूपश्च यज्ञो नित्यमनुष्ठेयो येन तेषां भद्रं भवेत्, तेषामुज्ज्वलाः कीर्तयश्च सर्वत्र प्रसरेयुः ॥५॥

इस भाष्य को एडिट करें
Top