Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 1108
ऋषिः - बन्धुः सुबन्धुः श्रुतबन्धुर्विप्रबन्धुश्च क्रमेण गौपायना लौपायना वा
देवता - अग्निः
छन्दः - द्विपदा विराट्
स्वरः - पञ्चमः
काण्ड नाम -
6
व꣡सु꣢र꣣ग्नि꣡र्वसु꣢꣯श्रवा꣣ अ꣡च्छा꣢ नक्षि द्यु꣣म꣡त्त꣢मो र꣣यिं꣡ दाः꣢ ॥११०८॥
स्वर सहित पद पाठव꣡सुः꣢꣯ । अ꣣ग्निः꣢ । व꣡सु꣢꣯श्रवाः । व꣡सु꣢꣯ । श्र꣣वाः । अ꣡च्छ꣢꣯ । न꣣क्षि । द्युम꣡त्त꣢मः । र꣣यि꣢म् । दाः꣣ ॥११०८॥
स्वर रहित मन्त्र
वसुरग्निर्वसुश्रवा अच्छा नक्षि द्युमत्तमो रयिं दाः ॥११०८॥
स्वर रहित पद पाठ
वसुः । अग्निः । वसुश्रवाः । वसु । श्रवाः । अच्छ । नक्षि । द्युमत्तमः । रयिम् । दाः ॥११०८॥
सामवेद - मन्त्र संख्या : 1108
(कौथुम) उत्तरार्चिकः » प्रपाठक » 4; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 22; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 7; खण्ड » 7; सूक्त » 1; मन्त्र » 2
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 4; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 22; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 7; खण्ड » 7; सूक्त » 1; मन्त्र » 2
Acknowledgment
विषयः - अथ पुनस्तमेव विषयमाह।
पदार्थः -
(अग्निः) अग्रनायकः परमात्मा राजा विद्वान् आचार्यो वा (वसुः) सुद्गुणानां वासयिता, (वसुश्रवाः) वसुभिः विद्यादिधनैः श्रवः कीर्तिर्यस्य तादृशश्च अस्ति। हे परमात्मन् राजन् आचार्य वा ! त्वम् (अच्छ) अस्मदभिमुखम् (नक्षि) प्राप्नुहि, (द्युमत्तमः) तेजस्वितमः त्वम् (रयिम्) विविधं दिव्यं भौतिकं च धनम् (दाः) देहि ॥२॥२
भावार्थः - परमात्मनो नृपतेराचार्यस्य च गुणकर्माणि दृष्ट्वा तत्सकाशाल्लाभान् प्राप्तुमर्हन्ति जनाः ॥२॥
टिप्पणीः -
१. ऋ० ५।२४।२, ‘द्यु॒मत्त॑मं’ इति पाठः। २. ऋग्भाष्ये दयानन्दर्षिरस्मिन्नपि मन्त्रे राजधर्ममाह।