Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 1117
ऋषिः - वृषगणो वासिष्ठः देवता - पवमानः सोमः छन्दः - त्रिष्टुप् स्वरः - धैवतः काण्ड नाम -
4

प्र꣢ ह꣣ꣳसा꣡स꣢स्तृ꣣प꣡ला꣢ व꣣ग्नु꣢꣫मच्छा꣣मा꣢꣫दस्तं꣣ वृ꣡ष꣢गणा अयासुः । अ꣣ङ्गोषि꣢णं꣣ प꣡व꣢मान꣣ꣳ स꣡खा꣢यो दु꣣र्म꣡र्षं꣢ वा꣣णं꣡ प्र व꣢꣯दन्ति सा꣣क꣢म् ॥१११७॥

स्वर सहित पद पाठ

प्र । ह꣣ꣳसा꣡सः꣢ । तृ꣣प꣡ला꣢ । व꣣ग्नु꣢म् । अ꣡च्छ꣢꣯ । अ꣣मा꣢त् । अ꣡स्त꣢꣯म् । वृ꣡ष꣢꣯गणाः । वृ꣡ष꣢꣯ । ग꣣णाः । अयासुः । अङ्गोषि꣡ण꣢म् । प꣡व꣢꣯मानम् । स꣡खा꣢꣯यः । स । खा꣣यः । दुर्म꣡र्ष꣢म् । दुः꣣ । म꣡र्ष꣢꣯म् । बा꣣ण꣢म् । प्र । व꣣दन्ति । साक꣢म् ॥१११७॥


स्वर रहित मन्त्र

प्र हꣳसासस्तृपला वग्नुमच्छामादस्तं वृषगणा अयासुः । अङ्गोषिणं पवमानꣳ सखायो दुर्मर्षं वाणं प्र वदन्ति साकम् ॥१११७॥


स्वर रहित पद पाठ

प्र । हꣳसासः । तृपला । वग्नुम् । अच्छ । अमात् । अस्तम् । वृषगणाः । वृष । गणाः । अयासुः । अङ्गोषिणम् । पवमानम् । सखायः । स । खायः । दुर्मर्षम् । दुः । मर्षम् । बाणम् । प्र । वदन्ति । साकम् ॥१११७॥

सामवेद - मन्त्र संख्या : 1117
(कौथुम) उत्तरार्चिकः » प्रपाठक » 4; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 1; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 8; खण्ड » 1; सूक्त » 1; मन्त्र » 2
Acknowledgment

पदार्थः -
(तृपला) शीघ्रकारिणः। [तृपल इति क्षिप्रनाम। निरु० ५।१२। सुपां सुलुक्० अ० ७।१।३९ इति जसः आकारादेशः] (वृषगणाः) वृषः धार्मिकः गणो येषां तथाविधाः (हंसासः) हंससदृशाः नीरक्षीरविवेकिनो निर्मलहृदयाः छात्राः (अमात्) बलाद्धेतोः, विद्याबलं प्राप्तुमित्यर्थः। [अम इति बलनाम। निरु० १०।२१।] (वग्नुम् अच्छ) वाचस्पतिम् आचार्यं प्रति। [वग्नुः इति वाङ्नाम। निघं० १।११, लक्षणया वाचस्पतिर्गृह्यते।] (अस्तम्) गृहम्, गुरुकुलम् (प्र अयासुः) प्र गच्छन्ति। (सखायः) सहाध्यायिनः ते (साकम्) सार्धं मिलित्वा (अङ्गोषिणम्) वेदानाम् आघोषकर्तारम्। [आङ्गूषः स्तोम आघोषः। निरु० ५।११।] (पवमानम्) हृदयानि पवित्रयन्तम्, (दुर्मर्षम्) दुर्धर्षम् (वाणम्२) संभजनीयम् आचार्यम्। [वन संभक्तौ, वन्यते सेव्यते इति वाणः।] (प्र वदन्ति) अध्यापनाय निवेदयन्ति ॥२॥ अत्र हंसासः इति लुप्तोपमम्। वाग्वाचको वग्नुशब्दो लक्षणावृत्त्या वाचस्पतिं लक्षयति, वाग्मित्वातिशयो व्यङ्ग्यः ॥२॥

भावार्थः - सुयोग्या गुरवः सुयोग्यान् शिष्यान् यदा प्राप्नुवन्ति तदैवोभये कीर्तिमन्तः सञ्जायन्ते ॥२॥

इस भाष्य को एडिट करें
Top