Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 1129
ऋषिः - असितः काश्यपो देवलो वा देवता - पवमानः सोमः छन्दः - गायत्री स्वरः - षड्जः काण्ड नाम -
3

प्र꣢꣫ धारा꣣ म꣡धो꣢ अग्रि꣣यो꣢ म꣣ही꣢र꣣पो꣡ वि गा꣢꣯हते । ह꣣वि꣢र्ह꣣विः꣢षु꣣ व꣡न्द्यः꣢ ॥११२९॥

स्वर सहित पद पाठ

प्र । धा꣡रा꣢꣯ । म꣡धोः꣢꣯ । अ꣣ग्रियः꣢ । म꣣हीः꣢ । अ꣣पः꣢ । वि । गा꣣हते । हविः꣢ । ह꣣वि꣡ष्षु꣢ । व꣡न्द्यः꣢꣯ ॥११२९॥


स्वर रहित मन्त्र

प्र धारा मधो अग्रियो महीरपो वि गाहते । हविर्हविःषु वन्द्यः ॥११२९॥


स्वर रहित पद पाठ

प्र । धारा । मधोः । अग्रियः । महीः । अपः । वि । गाहते । हविः । हविष्षु । वन्द्यः ॥११२९॥

सामवेद - मन्त्र संख्या : 1129
(कौथुम) उत्तरार्चिकः » प्रपाठक » 4; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 2; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 8; खण्ड » 2; सूक्त » 1; मन्त्र » 2
Acknowledgment

पदार्थः -
(अग्रियः) अग्रेभवः श्रेष्ठः, (हविःषु)) हविष्प्रदातृषु (हविः) उत्कृष्टो हविष्प्रदाता, (वन्द्यः) वन्दनीयः सोमः ज्ञानस्य अभिषोता विद्वान् (महीः अपः) महान्ति कर्माणि (वि गाहते) आलोडयति, ज्ञानानुकूलं कर्माण्याचरतीत्यर्थः। तस्य सकाशात् (मधोः) मधुरस्य ज्ञानरसस्य (धारा) नदी (प्र) प्रवहति। [उपसर्ग-बलाद् योग्यक्रियाध्याहारः, संहितायां ‘मधोः’ इत्यस्य विसर्गलोपश्छान्दसः] ॥२॥

भावार्थः - स एव विद्वान् प्रशस्यो यो ज्ञानानुकूलं कर्माण्यप्याचरति, सर्वेभ्यश्च ज्ञानस्य मधुरा धाराः प्रवाहयति ॥२॥

इस भाष्य को एडिट करें
Top