Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 1143
ऋषिः - यजत आत्रेयः
देवता - मित्रावरुणौ
छन्दः - गायत्री
स्वरः - षड्जः
काण्ड नाम -
4
प्र꣡ वो꣢ मि꣣त्रा꣡य꣢ गायत꣣ व꣡रु꣢णाय वि꣣पा꣢ गि꣣रा꣢ । म꣡हि꣢क्षत्रावृ꣣तं꣢ बृ꣣ह꣢त् ॥११४३॥
स्वर सहित पद पाठप्र꣢ । वः꣣ । मित्रा꣡य꣢ । मि꣣ । त्रा꣡य꣢꣯ । गा꣣यत । व꣡रु꣢꣯णाय । वि꣣पा꣢ । गि꣣रा꣢ । म꣡हि꣢꣯क्षत्रौ । म꣡हि꣢꣯ । क्ष꣣त्रौ । ऋत꣢म् । बृ꣣ह꣢त् ॥११४३॥
स्वर रहित मन्त्र
प्र वो मित्राय गायत वरुणाय विपा गिरा । महिक्षत्रावृतं बृहत् ॥११४३॥
स्वर रहित पद पाठ
प्र । वः । मित्राय । मि । त्राय । गायत । वरुणाय । विपा । गिरा । महिक्षत्रौ । महि । क्षत्रौ । ऋतम् । बृहत् ॥११४३॥
सामवेद - मन्त्र संख्या : 1143
(कौथुम) उत्तरार्चिकः » प्रपाठक » 4; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 4; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 8; खण्ड » 3; सूक्त » 2; मन्त्र » 1
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 4; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 4; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 8; खण्ड » 3; सूक्त » 2; मन्त्र » 1
Acknowledgment
विषयः - तत्रादौ मित्रावरुणनाम्ना परमात्मजीवात्मनोर्विषयमाह।
पदार्थः -
हे मनुष्याः ! (वः) यूयम् (विपा) मेधापूर्णया। [विप इति मेधाविनाम। निघं० ३।१५।] (गिरा) वाचा (मित्राय) विपत्त्रात्रे परमात्मने। [मित्रः प्रमीतेस्त्रायते। निरु० १०।२२।] (वरुणाय) वरणीयाय जीवात्मने च (गायत) गानं कुरुत, तत्तद्गुणान् वर्णयत इत्यर्थः। हे (महिक्षत्रौ) महाबलौ परमात्मजीवात्मानौ ! युवयोः (ऋतम्) सत्यं ज्ञानं सत्यं कर्म च (बृहत्) महत् अस्ति ॥१॥२
भावार्थः - जीवात्मा परमात्मना सह सख्यं संस्थाप्य महान्ति सत्यज्ञानानि प्राप्तुं महान्ति सत्यकर्माणि च कर्तुं पारयति ॥१॥
टिप्पणीः -
१. ऋ० ५।६८।१। २. ऋग्भाष्ये दयानन्दर्षिणा मन्त्रोऽयमध्यापकोपदेशकविषये व्याख्यातः।