Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 1144
ऋषिः - यजत आत्रेयः देवता - मित्रावरुणौ छन्दः - गायत्री स्वरः - षड्जः काण्ड नाम -
8

स꣣म्रा꣢जा꣣ या꣢ घृ꣣त꣡यो꣢नी मि꣣त्र꣢श्चो꣣भा꣡ वरु꣢꣯णश्च । दे꣣वा꣢ दे꣣वे꣡षु꣢ प्रश꣣स्ता꣢ ॥११४४॥

स्वर सहित पद पाठ

स꣣म्रा꣡जा꣢ । स꣣म् । रा꣡जा꣢꣯ । या । घृ꣣त꣡यो꣢नी । घृ꣣त꣢ । यो꣣नी꣢इति । मि꣣त्रः꣢ । मि꣢ । त्रः꣣ । च । उभा꣢ । व꣡रु꣢꣯णः । च꣣ । देवा꣢ । दे꣣वे꣡षु꣢ । प्र꣣शस्ता꣢ । प्र꣣ । शस्ता꣢ ॥११४४॥


स्वर रहित मन्त्र

सम्राजा या घृतयोनी मित्रश्चोभा वरुणश्च । देवा देवेषु प्रशस्ता ॥११४४॥


स्वर रहित पद पाठ

सम्राजा । सम् । राजा । या । घृतयोनी । घृत । योनीइति । मित्रः । मि । त्रः । च । उभा । वरुणः । च । देवा । देवेषु । प्रशस्ता । प्र । शस्ता ॥११४४॥

सामवेद - मन्त्र संख्या : 1144
(कौथुम) उत्तरार्चिकः » प्रपाठक » 4; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 4; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 8; खण्ड » 3; सूक्त » 2; मन्त्र » 2
Acknowledgment

पदार्थः -
(या) यौ (सम्राजा) सम्राजौ, (घृतयोनी) तेजोगृहौ च (मित्रः च वरुणः च) परमात्मा च जीवात्मा च (उभा) उभौ (देवा) देवौ, प्रकाशकौ, (देवेषु) प्रकाशकेषु च अग्निसूर्यविद्युदादिषु मध्ये (प्रशस्ता) प्रशस्तौ स्तः, ताभ्याम् (गायत) गुणगानं कुरुत। [‘गायत’ इति पदं पूर्वमन्त्रादानीतम्] ॥२॥२

भावार्थः - यथा परमेश्वरो विश्वब्रह्माण्डस्य सम्राट् तथा जीवात्मा देहस्य सम्राडस्ति। उभयोः प्रकाशं प्राप्य मनुष्यो महान् भवितुमर्हति ॥२॥

इस भाष्य को एडिट करें
Top