Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 1148
ऋषिः - मधुच्छन्दा वैश्वामित्रः देवता - इन्द्रः छन्दः - गायत्री स्वरः - षड्जः काण्ड नाम -
7

इ꣡न्द्रा या꣢꣯हि꣣ तू꣡तु꣢जान꣣ उ꣢प꣣ ब्र꣡ह्मा꣢णि हरिवः । सु꣣ते꣡ द꣢धिष्व न꣣श्च꣡नः꣢ ॥११४८॥

स्वर सहित पद पाठ

इ꣡न्द्र꣢꣯ । आ । या꣣हि । तू꣡तु꣢꣯जानः । उ꣡प꣢꣯ । ब्र꣡ह्मा꣢꣯णि । ह꣣रिवः । सुते꣢ । द꣣धिष्व । नः । च꣡नः꣢꣯ ॥११४८॥


स्वर रहित मन्त्र

इन्द्रा याहि तूतुजान उप ब्रह्माणि हरिवः । सुते दधिष्व नश्चनः ॥११४८॥


स्वर रहित पद पाठ

इन्द्र । आ । याहि । तूतुजानः । उप । ब्रह्माणि । हरिवः । सुते । दधिष्व । नः । चनः ॥११४८॥

सामवेद - मन्त्र संख्या : 1148
(कौथुम) उत्तरार्चिकः » प्रपाठक » 4; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 5; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 8; खण्ड » 3; सूक्त » 3; मन्त्र » 3
Acknowledgment

पदार्थः -
हे (हरिवः) हरीणां परस्पराकर्षणवतां सूर्यचन्द्रपृथिव्यादिलोकानां स्वामिन् (इन्द्र) जगदीश्वर ! त्वम् (तूतुजानः) त्वरमाणः। [तूतुजानः इति क्षिप्रनामसु पठितम्। निघं० २।१४।] अस्माकम् (ब्रह्माणि) स्तोत्राणि (उप आयाहि) उपागच्छ। (नः) अस्माकम् (सुते) पुत्रादौ सन्ताने (चनः) उपासनाजन्यम् आनन्दरसम् (दधिष्व) धारय। [दध धारणे, भ्वादिः] ॥३॥२

भावार्थः - जनैः सपरिवारं परमेश्वरोपासनाया आनन्दरसं प्रत्यहं प्राप्य दैनिककार्येषु प्रवर्तितव्यम् ॥३॥

इस भाष्य को एडिट करें
Top