Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 1147
ऋषिः - मधुच्छन्दा वैश्वामित्रः देवता - इन्द्रः छन्दः - गायत्री स्वरः - षड्जः काण्ड नाम -
7

इ꣡न्द्रा या꣢꣯हि धि꣣ये꣢षि꣣तो꣡ विप्र꣢꣯जूतः सु꣣ता꣡व꣢तः । उ꣢प꣣ ब्र꣡ह्मा꣢णि वा꣣घ꣡तः꣢ ॥११४७॥

स्वर सहित पद पाठ

इ꣡न्द्र꣢꣯ । आ । या꣣हि । धिया꣢ । इ꣣षितः꣢ । वि꣡प्र꣢꣯जूतः । वि꣡प्र꣢꣯ । जू꣣तः । सु꣡ता꣢वतः । उ꣡प꣢꣯ । ब्र꣡ह्मा꣢꣯णि । वा꣣घ꣡तः꣢ ॥११४७॥


स्वर रहित मन्त्र

इन्द्रा याहि धियेषितो विप्रजूतः सुतावतः । उप ब्रह्माणि वाघतः ॥११४७॥


स्वर रहित पद पाठ

इन्द्र । आ । याहि । धिया । इषितः । विप्रजूतः । विप्र । जूतः । सुतावतः । उप । ब्रह्माणि । वाघतः ॥११४७॥

सामवेद - मन्त्र संख्या : 1147
(कौथुम) उत्तरार्चिकः » प्रपाठक » 4; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 5; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 8; खण्ड » 3; सूक्त » 3; मन्त्र » 2
Acknowledgment

पदार्थः -
हे (इन्द्र) परमैश्वर्यवन् परमात्मन् ! (धिया इषितः) ध्यानेन प्रेरितः, (विप्रजूतः) मेधाविना जीवात्मना स्तुतः त्वम् (सुतावतः) पुत्रवतः (वाघतः) अध्यात्मयज्ञवाहकस्य मम (ब्रह्माणि) स्तोत्राणि (उप आ याहि) उपागच्छ ॥२॥२

भावार्थः - परिवारे पत्नीपुत्रपौत्रादिसहितैः सर्वैः प्रातःसायं ध्यानेन परमेश्वर आराधनीयः ॥२॥

इस भाष्य को एडिट करें
Top