Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 1146
ऋषिः - मधुच्छन्दा वैश्वामित्रः
देवता - इन्द्रः
छन्दः - गायत्री
स्वरः - षड्जः
काण्ड नाम -
4
इ꣡न्द्रा या꣢꣯हि चित्रभानो सु꣣ता꣢ इ꣣मे꣢ त्वा꣣य꣡वः꣢ । अ꣡ण्वी꣢भि꣣स्त꣡ना꣢ पू꣣ता꣡सः꣢ ॥११४६॥
स्वर सहित पद पाठइ꣡न्द्र꣢꣯ । आ । या꣣हि । चित्रभानो । चित्र । भानो । सुताः꣢ । इ꣣मे꣢ । त्वा꣣य꣡वः꣢ । अ꣡ण्वी꣢꣯भिः । त꣡ना꣢꣯ । पू꣣ता꣡सः꣢ ॥११४६॥
स्वर रहित मन्त्र
इन्द्रा याहि चित्रभानो सुता इमे त्वायवः । अण्वीभिस्तना पूतासः ॥११४६॥
स्वर रहित पद पाठ
इन्द्र । आ । याहि । चित्रभानो । चित्र । भानो । सुताः । इमे । त्वायवः । अण्वीभिः । तना । पूतासः ॥११४६॥
सामवेद - मन्त्र संख्या : 1146
(कौथुम) उत्तरार्चिकः » प्रपाठक » 4; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 5; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 8; खण्ड » 3; सूक्त » 3; मन्त्र » 1
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 4; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 5; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 8; खण्ड » 3; सूक्त » 3; मन्त्र » 1
Acknowledgment
विषयः - अथेन्द्रनाम्ना परमेश्वर आहूयते।
पदार्थः -
हे (इन्द्र) ऐश्वर्यशालिन् परमात्मन् ! हे (चित्रभानो) अद्भुतदीप्ते ! त्वम् (आयाहि) आगच्छ, (इमे) एते (सुताः) अस्मत्पुत्राः (त्वायवः) त्वां कामयमानाः सन्ति,किञ्च (अण्वीभिः) सूक्ष्माभिः धार्मिकवृत्तिभिः (तना) धनेन [तना इति धननामसु पठितम्। निरु० २।१०।] (पूतासः) पूताः पवित्राः सन्ति। [उक्तं चान्यत्र—‘रम॑न्तां॒ पुण्या ल॒क्ष्मीर्याः पा॒पीस्ता अ॑नीनशम्।’ अथ० ७।११५।४ इति] ॥१॥२
भावार्थः - अस्माभिरस्मत्सन्तानैश्च परमेश्वरोपासकैः पवित्रलक्ष्मीकैश्च भाव्यम्। पापेनार्जितं धनं धनं न किन्तु साक्षात् पापमेव भवति ॥१॥
टिप्पणीः -
१. ऋ० १।३।४, य० २०।८७, अथ० २०।८४।१। २. दयानन्दर्षिणा मन्त्रोऽयम् ऋग्भाष्ये परमेश्वरसूर्ययोर्विषये यजुर्भाष्ये च सभेशविषये व्याख्यातः।