Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 1150
ऋषिः - भरद्वाजो बार्हस्पत्यः देवता - इन्द्राग्नी छन्दः - गायत्री स्वरः - षड्जः काण्ड नाम -
9

य꣢ इ꣣द्ध꣢ आ꣣वि꣡वा꣢सति सु꣣म्न꣡मिन्द्र꣢꣯स्य꣣ म꣡र्त्यः꣢ । द्यु꣣म्ना꣡य꣢ सु꣣त꣡रा꣢ अ꣣पः꣢ ॥११५०॥

स्वर सहित पद पाठ

यः । इ꣣द्धे꣢ । आ꣣वि꣢वा꣢सति । आ꣣ । वि꣡वा꣢꣯सति । सु꣣म्न꣢म् । इ꣡न्द्र꣢꣯स्य । म꣡र्त्यः꣢꣯ । द्यु꣣म्ना꣡य꣢ । सु꣣त꣡राः꣢ । सु꣣ । त꣡राः꣢꣯ । अ꣣पः꣢ ॥११५०॥


स्वर रहित मन्त्र

य इद्ध आविवासति सुम्नमिन्द्रस्य मर्त्यः । द्युम्नाय सुतरा अपः ॥११५०॥


स्वर रहित पद पाठ

यः । इद्धे । आविवासति । आ । विवासति । सुम्नम् । इन्द्रस्य । मर्त्यः । द्युम्नाय । सुतराः । सु । तराः । अपः ॥११५०॥

सामवेद - मन्त्र संख्या : 1150
(कौथुम) उत्तरार्चिकः » प्रपाठक » 4; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 6; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 8; खण्ड » 3; सूक्त » 4; मन्त्र » 2
Acknowledgment

पदार्थः -
(यः मर्त्यः) यो मनुष्यः (इद्धे) अग्नौ प्रदीप्ते सति (इन्द्रस्य) परमात्मनः (सुम्नम्) सुखकरं दानम् (आ विवासति) परिचरति, प्रशंसतीत्यर्थः, सः (द्युम्नाय) तेजसे यशसे च (अपः) विकटान्यपि कर्माणि (सुतराः) सुतराणि, सुसाध्यानि करोति ॥२॥२

भावार्थः - समिद्धेऽग्नौ तस्य स्वकीयं ज्योतिर्नास्ति प्रत्युत परमात्मन एवेति यो मन्यते स परमात्माराधकः सन् तेजस्वी यशस्वी च जायते। यस्तु भौतिकवादी स भौतिकेष्वेव पदार्थेषु रममाणो भोगैरेव भुज्यते ॥२॥

इस भाष्य को एडिट करें
Top