Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 1160
ऋषिः - अग्नयो धिष्ण्या ऐश्वराः
देवता - पवमानः सोमः
छन्दः - द्विपदा विराट्
स्वरः - पञ्चमः
काण्ड नाम -
5
प्र꣢ वा꣣꣬ज्य꣢꣯क्षाः स꣣ह꣡स्र꣢धारस्ति꣣रः꣢ प꣣वि꣢त्रं꣣ वि꣢꣫ वार꣣म꣡व्य꣢म् ॥११६०॥
स्वर सहित पद पाठप्र꣢ । वा꣣जी꣢ । अ꣣क्षारि꣡ति꣢ । स꣣ह꣡स्र꣢धारः । स꣣ह꣡स्र꣢ । धा꣣रः । तिरः꣢ । प꣣वि꣡त्र꣢म् । वि । वा꣡र꣢꣯म् । अ꣡व्य꣢꣯म् ॥११६०॥
स्वर रहित मन्त्र
प्र वाज्यक्षाः सहस्रधारस्तिरः पवित्रं वि वारमव्यम् ॥११६०॥
स्वर रहित पद पाठ
प्र । वाजी । अक्षारिति । सहस्रधारः । सहस्र । धारः । तिरः । पवित्रम् । वि । वारम् । अव्यम् ॥११६०॥
सामवेद - मन्त्र संख्या : 1160
(कौथुम) उत्तरार्चिकः » प्रपाठक » 4; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 10; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 8; खण्ड » 5; सूक्त » 2; मन्त्र » 1
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 4; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 10; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 8; खण्ड » 5; सूक्त » 2; मन्त्र » 1
Acknowledgment
विषयः - तत्रादौ ज्ञानरसविषय उच्यते।
पदार्थः -
(वाजी) बलवान्, (सहस्रधारः) अनन्तधारः पवमानः सोमः पवित्रकारी ज्ञानरसः (पवित्रम्) पूतं मनः(तिरः) पारं कृत्वा (अव्यम्) अव्ययम् अविनश्वरम् (वारम्) दोषनिवारकं जीवात्मानं प्रति (प्र वि अक्षाः) प्रकर्षेण विविधं क्षरति। [अक्षाः क्षरति। निरु० ५।३] ॥१॥
भावार्थः - आचार्यात् प्रवहन् विज्ञानरसो मनोमाध्यमेन जीवात्मानं प्रविश्य तं पुनाति विद्वांसं च करोति ॥१॥
टिप्पणीः -
१. ऋ० ९।१०९।१६, ‘प्र सु॑वा॒नो अ॑क्षाः’ इति भेदः।