Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 1169
ऋषिः - नृमेध आङ्गिरसः
देवता - इन्द्रः
छन्दः - ककुप्
स्वरः - ऋषभः
काण्ड नाम -
4
त्वं꣡ न꣢ इ꣣न्द्रा꣡ भ꣢र꣣ ओ꣡जो꣢ नृ꣣म्ण꣡ꣳ श꣢तक्रतो विचर्षणे । आ꣢ वी꣣रं꣡ पृ꣢तना꣣स꣡ह꣢म् ॥११६९॥
स्वर सहित पद पाठत्व꣢म् । नः꣣ । इन्द्र । आ꣢ । भ꣣र । ओ꣡जः꣢꣯ । नृ꣣म्ण꣢म् । श꣣तक्रतो । शत । क्रतो । विचर्षणे । वि । चर्षणे । आ꣢ । वी꣣र꣢म् । पृ꣣तनास꣡ह꣢म् । पृतना । सहम् ॥११६९॥
स्वर रहित मन्त्र
त्वं न इन्द्रा भर ओजो नृम्णꣳ शतक्रतो विचर्षणे । आ वीरं पृतनासहम् ॥११६९॥
स्वर रहित पद पाठ
त्वम् । नः । इन्द्र । आ । भर । ओजः । नृम्णम् । शतक्रतो । शत । क्रतो । विचर्षणे । वि । चर्षणे । आ । वीरम् । पृतनासहम् । पृतना । सहम् ॥११६९॥
सामवेद - मन्त्र संख्या : 1169
(कौथुम) उत्तरार्चिकः » प्रपाठक » 4; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 13; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 8; खण्ड » 6; सूक्त » 2; मन्त्र » 1
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 4; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 13; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 8; खण्ड » 6; सूक्त » 2; मन्त्र » 1
Acknowledgment
विषयः - तत्र प्रथमा ऋक् पूर्वार्चिके ४०५ क्रमाङ्के परमात्मनृपत्योर्विषये व्याख्याता। अत्र क्षात्रधर्मशिक्षक आचार्य उच्यते।
पदार्थः -
हे (शतक्रतो) बहुप्रज्ञ, (विचर्षणे) शिष्याणां द्रष्टः (इन्द्र) क्षात्रधर्मशिक्षक आचार्य ! (त्वम् नः) अस्मभ्यम् (ओजः) उत्साहम् (नृम्णम्) बलं च (आ भर२) आहर। अपि च (पृतनासहम्) शत्रुसेनापराजेतारम् (वीरम्) शूरं क्षत्रियं योद्धारम् (आ) आहर ॥१॥
भावार्थः - तत्तद्विद्यानिष्णातो गुरुरेव ब्राह्मणं वा क्षत्रियं वा वैश्यं वा राष्ट्राय जनयति ॥१॥
टिप्पणीः -
१. ऋ० ८।९८।१०, अथ० २०।१०८।१, उभयत्र ‘भ॑रँ॒, पृ॑तना॒षह॑म्’ इति भेदः। साम० ४०५। २. संहितायाम् ‘भर ओजः’ इत्यत्र ‘भरौजः’ इति वृद्धिरेकादेशो न भवति, ‘ओजि। ऋक्तन्त्रम् ८६’ पदादौ ओजि परे पूर्वो न सन्निकृष्यते इति नियमात्।