Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 1182
ऋषिः - असितः काश्यपो देवलो वा
देवता - पवमानः सोमः
छन्दः - गायत्री
स्वरः - षड्जः
काण्ड नाम -
8
दे꣣वे꣡भ्य꣢स्त्वा꣣ म꣡दा꣢य꣣ क꣡ꣳ सृ꣢जा꣣न꣡मति꣢꣯ मे꣣꣬ष्यः꣢꣯ । सं꣡ गोभि꣢꣯र्वासयामसि ॥११८२॥
स्वर सहित पद पाठदेवे꣡भ्यः꣢꣯ । त्वा꣣ । म꣡दा꣢꣯य । कम् । सृ꣣जान꣢म् । अ꣡ति꣢꣯ । मे꣣ष्यः꣢꣯ । सम् । गो꣡भिः꣢꣯ । वा꣣सयामसि ॥११८२॥
स्वर रहित मन्त्र
देवेभ्यस्त्वा मदाय कꣳ सृजानमति मेष्यः । सं गोभिर्वासयामसि ॥११८२॥
स्वर रहित पद पाठ
देवेभ्यः । त्वा । मदाय । कम् । सृजानम् । अति । मेष्यः । सम् । गोभिः । वासयामसि ॥११८२॥
सामवेद - मन्त्र संख्या : 1182
(कौथुम) उत्तरार्चिकः » प्रपाठक » 5; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 2; मन्त्र » 5
(राणानीय) उत्तरार्चिकः » अध्याय » 9; खण्ड » 1; सूक्त » 2; मन्त्र » 5
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 5; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 2; मन्त्र » 5
(राणानीय) उत्तरार्चिकः » अध्याय » 9; खण्ड » 1; सूक्त » 2; मन्त्र » 5
Acknowledgment
विषयः - अथ जगदीश्वरः सम्बोध्यते।
पदार्थः -
हे सोम जगत्स्रष्टः परमेश्वर ! (मेष्यः) मेषीः सेक्त्रीः आनन्दधाराः। [मिषु सेचने, भ्वादिः। अत्र वा छन्दसि सर्वे विधयो भवन्तीति पूर्वसवर्णदीर्घविकल्पनाद् यणि रूपम्।] (अति सृजानम्) विसृजन्तम्, (कम्) सुखस्वरूपम् (त्वा) त्वाम् (देवेभ्यः) आत्ममनोबुद्ध्यादिभ्यः। [षष्ठ्यर्थे चतुर्थी।] (मदाय) हर्षाय, वयम् (गोभिः) स्तुतिवाग्भिः (सं वासयामसि) सञ्छादयामः। [वस आच्छादने, णिजन्तः, इदन्तो मसि] ॥५॥
भावार्थः - जगत्पतिः परमेश्वर उपासकानानन्दधाराभिः सिञ्चंस्तेषामात्ममनोबुद्ध्यादीनि च तर्पयंस्तानुपकरोति ॥५॥
टिप्पणीः -
१. ऋ० ९।८।५।