Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 1181
ऋषिः - असितः काश्यपो देवलो वा देवता - पवमानः सोमः छन्दः - गायत्री स्वरः - षड्जः काण्ड नाम -
5

मृ꣣ज꣡न्ति꣢ त्वा꣣ द꣢श꣣ क्षि꣡पो꣢ हि꣣न्व꣡न्ति꣢ स꣣प्त꣢ धी꣣त꣡यः꣢ । अ꣢नु꣣ वि꣡प्रा꣢ अमादिषुः ॥११८१॥

स्वर सहित पद पाठ

मृ꣣ज꣡न्ति꣢ । त्वा꣣ । द꣡श꣢꣯ । क्षि꣡पः꣢꣯ । हि꣣न्व꣡न्ति꣢ । स꣣प्त꣢ । धी꣣त꣡यः꣢ । अ꣡नु꣢꣯ । वि꣡प्राः꣢꣯ । वि । प्राः꣣ । अमादिषुः ॥११८१॥


स्वर रहित मन्त्र

मृजन्ति त्वा दश क्षिपो हिन्वन्ति सप्त धीतयः । अनु विप्रा अमादिषुः ॥११८१॥


स्वर रहित पद पाठ

मृजन्ति । त्वा । दश । क्षिपः । हिन्वन्ति । सप्त । धीतयः । अनु । विप्राः । वि । प्राः । अमादिषुः ॥११८१॥

सामवेद - मन्त्र संख्या : 1181
(कौथुम) उत्तरार्चिकः » प्रपाठक » 5; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 2; मन्त्र » 4
(राणानीय) उत्तरार्चिकः » अध्याय » 9; खण्ड » 1; सूक्त » 2; मन्त्र » 4
Acknowledgment

पदार्थः -
हे सोम कर्मानुसारं मानवदेहे प्रेरित जीवात्मन् ! (दश क्षिपः) दशसंख्यकाः प्राणाः (त्वा) त्वाम् (मृजन्ति) अलङ्कुर्वन्ति [क्षिप्यन्ते स्वस्वस्थानेषु याः ताः क्षिपः।] किञ्च (सप्त धीतयः) सप्तसंख्यकानि मनोबुद्धिसहितानि पञ्च ज्ञानेन्द्रियाणि, त्वाम् (हिन्वन्ति) प्रीणयन्ति [हिवि प्रीणनार्थः, भ्वादिः।]। (विप्राः) मेधाविनो विद्वज्जनाः, त्वाम् (अनु अमादिषुः) अनुहर्षयन्ति। [अत्र लडर्थे लुङ्] ॥४॥

भावार्थः - जीवात्मा परमेश्वरेण सर्वैः परमोत्कृष्टैः साधनैः सह शरीरं प्रवेशितोऽस्ति, अतस्तत्र निवसता तेन चरमोन्नतिः साधनीया ॥४॥

इस भाष्य को एडिट करें
Top