Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 1180
ऋषिः - असितः काश्यपो देवलो वा देवता - पवमानः सोमः छन्दः - गायत्री स्वरः - षड्जः काण्ड नाम -
4

इ꣡न्द्र꣢स्य सोम꣣ रा꣡ध꣢से पुना꣣नो꣡ हार्दि꣢꣯ चोदय । दे꣣वा꣢नां꣣ यो꣡नि꣢मा꣣स꣡द꣢म् ॥११८०॥

स्वर सहित पद पाठ

इ꣡न्द्र꣢꣯स्य । सो꣣म । रा꣡ध꣢꣯से । पु꣣नानः꣢ । हा꣡र्दि꣢꣯ । चो꣣दय । देवा꣡ना꣢म् । यो꣡नि꣢꣯म् । आ꣣स꣡द꣢म् । आ꣣ । स꣡द꣢꣯म् ॥११८०॥


स्वर रहित मन्त्र

इन्द्रस्य सोम राधसे पुनानो हार्दि चोदय । देवानां योनिमासदम् ॥११८०॥


स्वर रहित पद पाठ

इन्द्रस्य । सोम । राधसे । पुनानः । हार्दि । चोदय । देवानाम् । योनिम् । आसदम् । आ । सदम् ॥११८०॥

सामवेद - मन्त्र संख्या : 1180
(कौथुम) उत्तरार्चिकः » प्रपाठक » 5; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 2; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 9; खण्ड » 1; सूक्त » 2; मन्त्र » 3
Acknowledgment

पदार्थः -
हे (सोम) रसागार परमात्मन् ! (इन्द्रस्य) जीवात्मनः (राधसे) ऐश्वर्यप्राप्तये सिद्धिप्राप्तये वा (पुनानः) पवित्रतां प्रयच्छन् त्वम् (देवानाम्) दिव्यानां मुक्तजनानाम् (योनिम्) गृहं, मोक्षलोकमित्यर्थः (आसदम्) आसादयितुम् [अत्र आङ्पूर्वाद् णिज्गर्भात् षद्लृ धातोः तुमर्थे बाहुलकाच्छान्दसो णमुल् प्रत्ययः।] (हार्दि२) सर्वान् प्रति सौहार्दम्। [अत्र द्वितीयैकवचनस्य लुक्।] (चोदय) अस्मासु प्रेरय ॥३॥

भावार्थः - लोकविद्वेषिणो जना मोक्षं प्राप्तुं न क्षमन्ते ॥३॥

इस भाष्य को एडिट करें
Top