Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 1188
ऋषिः - असितः काश्यपो देवलो वा देवता - पवमानः सोमः छन्दः - गायत्री स्वरः - षड्जः काण्ड नाम -
4

प꣡व꣢मानमवस्यवो꣣ वि꣡प्र꣢म꣣भि꣡ प्र गा꣢꣯यत । सु꣣ष्वाणं꣢ दे꣣व꣡वी꣢तये ॥११८८॥

स्वर सहित पद पाठ

प꣡व꣢꣯मानम् । अ꣣वस्यवः । वि꣡प्र꣢꣯म् । वि । प्र꣣म् । अभि꣢ । प्र । गा꣣यत । सुष्वाण꣢म् । दे꣣व꣡वी꣢तये । दे꣣व꣢ । वी꣣तये ॥११८८॥


स्वर रहित मन्त्र

पवमानमवस्यवो विप्रमभि प्र गायत । सुष्वाणं देववीतये ॥११८८॥


स्वर रहित पद पाठ

पवमानम् । अवस्यवः । विप्रम् । वि । प्रम् । अभि । प्र । गायत । सुष्वाणम् । देववीतये । देव । वीतये ॥११८८॥

सामवेद - मन्त्र संख्या : 1188
(कौथुम) उत्तरार्चिकः » प्रपाठक » 5; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 3; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 9; खण्ड » 2; सूक्त » 1; मन्त्र » 2
Acknowledgment

पदार्थः -
हे (अवस्यवः) रक्षणेच्छवो जनाः ! यूयम् (देववीतये) दिव्यगुणानां प्राप्तये (पवमानम्) पवित्रीकुर्वन्तम्, (विप्रम्) विशेषेण प्रीणयितारम् पूरकं वा। [विपूर्वात् प्रीञ् तर्पणे, प्रा पूरणे इति वा धातोर्डप्रत्यये रूपसिद्धिः, पदपाठे ‘वि-प्रम्’ इति दर्शनात्।] (सुष्वाणम्) आनन्दरसं सुतवन्तम् सोमं रसागारं परमात्मानम् (अभि) लक्ष्यीकृत्य (प्र गायत) प्रकर्षेण गानं कुरुत ॥२॥

भावार्थः - परमात्मनो गुणगानेन ध्यानेन चोपासकै रक्षणं पवित्रता तृप्तिः पूर्णताऽऽनन्दश्च प्राप्यते ॥२॥

इस भाष्य को एडिट करें
Top