Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 1196
ऋषिः - असितः काश्यपो देवलो वा
देवता - पवमानः सोमः
छन्दः - गायत्री
स्वरः - षड्जः
काण्ड नाम -
12
सो꣡मा꣢ असृग्र꣣मि꣡न्द꣢वः सु꣣ता꣢ ऋ꣣त꣢स्य꣣ धा꣡र꣢या । इ꣡न्द्रा꣢य꣣ म꣡धु꣢मत्तमाः ॥११९६॥
स्वर सहित पद पाठसो꣡माः꣢꣯ । अ꣣सृग्रम् । इ꣡न्द꣢꣯वः । सु꣣ताः꣢ । ऋ꣣त꣡स्य꣢ । धा꣡र꣢꣯या । इ꣡न्द्रा꣢꣯य । म꣡धु꣢꣯मत्तमाः ॥११९६॥
स्वर रहित मन्त्र
सोमा असृग्रमिन्दवः सुता ऋतस्य धारया । इन्द्राय मधुमत्तमाः ॥११९६॥
स्वर रहित पद पाठ
सोमाः । असृग्रम् । इन्दवः । सुताः । ऋतस्य । धारया । इन्द्राय । मधुमत्तमाः ॥११९६॥
सामवेद - मन्त्र संख्या : 1196
(कौथुम) उत्तरार्चिकः » प्रपाठक » 5; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 4; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 9; खण्ड » 3; सूक्त » 1; मन्त्र » 1
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 5; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 4; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 9; खण्ड » 3; सूक्त » 1; मन्त्र » 1
Acknowledgment
विषयः - तत्रादौ ब्रह्मानन्दरसान् वर्णयति।
पदार्थः -
(सुताः) अभिषुताः, (इन्दवः) क्लेदकाः, (मधुमत्तमाः) मधुरतमाः (सोमाः) परमानन्दरसाः (ऋतस्य) सत्यस्य (धारया) प्रवाहसन्तत्या (इन्द्राय) जीवात्मने (असृग्रम्) सृज्यन्ते ॥१॥
भावार्थः - ब्रह्मान्दे निमग्न एव जनस्तन्माधुर्यमनुभवितुं शक्नोति ॥१॥
टिप्पणीः -
१. ऋ० ९।१२।१, ‘धारया’ इत्यत्र ‘साद॑ने’।